________________
६७
वृद्धवसिष्ठसिद्धान्तः । शृङ्गवच्छलयामध्ये हिरण्याख्यं समीरितम् । वर्ष सुरम्यकाख्यं च मध्ये यच्छुक्लनौलयोः ॥ ७० ॥ माल्यवन्नीलनिषधगन्धमादनभूभृताम् । मध्ये यदत्र विज्ञेयं नामा वर्षमिलातम् ॥ ७१ ॥ तत्र देवा: सगन्धर्वाः सन्ति स्वर्णमयी मही। तन्मध्ये गिरिराजोऽयं पास्य कर्णिकाकृतिः ॥ ७२ ।। नामा सुमेरुर्विख्यातो नानारत्नविभूषितः । बिज हेममयो भव्यः स तु सिद्धसुरालयः ॥ ७३ ॥ अथास्य विष्कम्भनगाः सुगन्धो मन्दराचलः । विपुलाख्यः सुपार्श्वश्च चत्वारस्तेषु भूरुहाः ॥ ७४ ।। उत्पन्नाः क्रमशो जम्बूकदम्बवटपिप्पलाः । महाजम्बूनदी जाता जम्बूफलगलद्रसात् ॥ ७५ ॥ तयुक्ता म्हदभूत् खणं तसं चामृताधिकम् । पिवन्ति सुरसिधा असते च परामखाः ॥ ७९ ॥ नन्दनाख्यं चित्ररथं धृतिसंजं वनं तथा । वैधाजमिति तत्र स्युश्चत्वारि क्रमशो द्विज ॥ ७७॥ मानसं च सरस्तत्रारुणाख्यं च महाहदम् । शुभवारीति चत्वारि सरांसि क्रमता दिन ॥ ७८॥ सदनकाञ्चनमये सुमेरोः शिखरत्रये । ब्रह्मा विष्ण शिवस्थानान्यधस्तेभ्यो दिशाधिपाः ॥ ४ ॥
Aho! Shrutgyanam