________________
(३)
मेव विरचिता न तथा जैनसाहित्ये मूलटीकयोरेकभाषात्व यद्यपि भाष्यनियुक्तिनिर्माणसमयपर्यन्तं बौद्धवज्जैनसाहित्यमपि समानभाषानियद्मासीत्परन्तु तत्पश्चाज्जैनाचार्याणां मनसि संस्कृतयुगस्य प्रभावः समुद्भूतस्तन एव मम्म
समप्रभृतिन्यायव्याकरणाद्यनेक संस्कृत ग्रंथानां निमाणेषि प्राकृतभाषाग्रन्थनिर्माणमार्गे न तावदुत्माहः प्रतीनियति तत एव हेमचन्द्रसुरेरपि सर्वानाप्रयोगान रुगृह्य नद्वयाकरणनिर्माण उपेक्षा जाता प्रतीयते । ननु प्रवचनानामपि प्रा. तभाषैव श्रूयते यदुक्तम्
"बालस्त्री मन्दमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । तेषां सुखावबोधाय, सिद्धान्ताः प्राकृते कृताः ॥ १ ॥
""
टीकायामप्यनेकस्थलेषु " प्राकृतशैल्या चतुषष्ठी प्राकृतत्वाद्रेफागमः" इत्यादिवचनैः सिद्धान्तभाषायाः प्राकृतत्वमेव सिद्धयति तद्व्याकरणानि च सन्नीति चेच्छ्रयतां संस्कृतातिरिक्तानां सर्वासां भाषाणां प्राकृतेति सामान्य नाम. यदुक्तं स्थानाङ्गसृत्रस्य सप्तमस्थाने - "संख्या पाया चेव पसत्था इसी भासिया" पागय (प्राकृत) शब्देन प्रातत्वेनाभिमतानां सर्वासां भाषाणां संग्रहः शौरसेनीमागधी पैशाचीचूल पैशाचिकापभ्रंशादयः सर्वा अपि सामान्यरूपेण प्राकृतमुच्यन्ते विशेषापेक्षायां तु प्रत्येकं पृथक् पृथङनाम्ना व्यवहियते यथा ब्राह्मणक्षत्रियादीनां सामान्यमनुष्यशब्दवाच्यत्वेऽपि ब्राह्मणादयः शब्दाः पृथकपृथग्जातिवाचकास्तथाऽत्रापि ज्ञेयम्.
प्रवचन भाषाया नामधेयविशेषः ? अर्द्धमागधी, आप्राकृतं वा यदुक्तं समवायाङ्गादौ
-
Aho! Shrutgyanam