________________
विचारश्रेणी भानुमितौ राजानौ षष्ठि (६०) वर्षाणि राज्यमकार्टाम् । यौ तु कल्पचूर्णौ चतुर्थीपर्वकर्तृकालकाचार्यनिर्वासकौ उज्जयिन्यां बलमित्र भानुमित्रौ तावन्यावेव । ततश्चत्वारिंशत् 4 (४०) वर्षाणि नभोवाहने राज्यं जातम् । एषः कापि नरवाहनो राजेत्युच्यते । एवं वीरनिर्वाणाद् वर्ष ४५३ । अस्मिंश्च वर्षे गर्दभिलकोच्छेदकस्य श्रीकालकाचार्यस्य सूरिपद प्रतिष्ठाऽभूत् । तथा नभोवाहनराजानन्तरं गर्दभिल्लराज्यं द्विपञ्चाशदधिकं शतं ( १५२ ) वर्षाणि 6 ज्ञातव्यम् । अयं भावः----गर्दभिल्लप्रभृतीनां राज्य गर्दभिल्लराज्यम् । इह यदा यो राजा ख्यातिमानभूत्, तदा तस्य राज्यं गण्यते, न तु पट्टानुक्रमः । ततो नभोवाहनादनु गर्दभिल्लेनोज्जयिन्यां १३ वर्षाणि राज्यं कृतम् । तावता श्रीकालकाचार्येण स्वसुः सरस्वत्याः प्रघट्टके गई भिल्लमुच्छेद्य उज्जयिन्यां शकराजाः स्थापिताः। तैः ४ वर्षाणि? तत्र राज्यं चक्रे । एवं वर्ष १७ । तदनु गर्दभिल्लस्यैव सुतेन विक्रमादित्येन राज्ञोज्जयिन्या राज्यं प्राप्य सुवर्ण पुरुषसिद्धिबलात् पृथिवीमनृणां कुर्वता विक्रमसंवत्सरः प्रवर्तितः । स च वार्षिकदानवर्षाज्जातश्रीवीरसंवत्सराद् द्वादशाधिकपञ्चशतवर्षेभ्योऽनु ज्ञेयः । विक्रमस्य राज्यं ६० वर्षाणि ततस्तत्पुत्रस्य विक्रमचरित्रापरनाम्नो धर्मादित्यराजस्य राज्यं ४० वर्षाणि । ततो भाइलराजराज्यं वर्ष ११ । ततः श्रीनाइल राज्य वर्ष १४ । ततः श्रीनाहडराज्यं १० वर्षाणि जातम् । यस्य वारके नवनवति-लक्षधनपतिभिरप्राप्तनिवासे जालउरपुरसमीपस्थे सुवर्णगिरिशृंगे श्रीमहावीरसनाथः श्रीयक्षवसत्याख्यो10 महाप्रासादो निष्पन्नः । उक्तं च
नवनवइलक्खधणवइ-अलद्धवासे सुवन्नगिरिसिहरे ।
नाहडनिवकालीणं थुणि वीरं जक्खवसहीए ॥1] विक्रमादित्यादनुवर्ष १३५; तन्मध्ये १७ वर्षेषु क्षिप्तेषु सर्ववर्ष १५२ । एतदेवाह
विकमरज्जाणंतरसतरसवासेहिं वच्छरपवित्ती।
सेस पुण12 पणतीससयविक्कमकालम्मि य पविहं ॥ सप्तदशवर्षेर्विक्रमराज्यानन्तरं वत्सरप्रवृत्तिः । कोऽर्थः ? । नभोवाहनराज्यात् १७ वर्षेर्विक्रमादित्यस्य राज्यम् । राज्यानन्तरं च तदैव वत्सरप्रवृत्तिः । ततो द्विपञ्चाशदधिकशत :( १५२) मध्यात् १७ वर्षेषु गतेषु शेष पञ्चत्रिंशदधिकशतं ( १३५) 13 विक्रमकाले प्रविष्टम् । विक्रमादित्याङ्कितसंवत्सरात् शाकसंवत्सरं यावद् यः कालः स विक्रमकालः । स च पूर्वोक्तयुक्त्या १३५ वर्षमान इति । तत्र प्रविष्टं तत्र स्थितमिति । एवं च सति किं जातमित्याह---
विकमरज्जारंभा परओ सिरिवीरनिव्वुई भणिया।
सुन्न-मुणि-वेय-जुत्तो विक्कमकालाउ जिणकालो। 1 ६० वर्षाणि । 2 ० कालिका० । 3 बालभी० । 4 ४० वर्षाणि । 5 सूरपद. । 6 गईंभिल्लराज्यं १५२ वर्षाणि । 7 शकराजा स्थापितः ततः ४ वर्षाणि । 8 स्वर्णपु० । नाइल्ल। 10 .वसत्यारेकमहा।
11 नवनवति क्खधणवइ अलद्धवासे सवन्नचेइहरे । नाहडनिवकारवियं वीरं जक्खवइवसहीए ।। 12 नास्ति । 13 'शेषं १३५' इत्येव ।
Aho! Shrutgyanam