________________
६]
उपकेशशमच्छीका पट्टावलिः
1
तब महालामो भविष्यति । गुरुः पंच त्रिंशत् मुनिभिः सह स्थितः । मासी द्विमासी तृमासी चतुर्मासी उप्पोसित कारिका । अथ मंत्रश्विर ऊहड सुतं भुजंगेन दृष्टः । अनेक मंत्रवादिनः आहूताः परं न कोपि समर्थस्तैः कथितं अयं मृतः दाघो दयितां । तस्य स्त्री काष्टभक्षणे स्मशाने आयाता । श्रेष्टस्य महान् दुःखो जातः । वादित्रान् आकर्ण्य लघुशिष्यः तत्रागतः । झंपाणो दृष्ट्वा एवं कथापयति भो ! जीवितं कभ ज्वालयत तैः श्रेष्टिने कथितं एषः मुनीश्वरः एवं कथयति । श्रेष्टिना झपाणो वालितः क्षुल्लकः प्रनष्टः गुरुः पृष्ठे स्थितः । मृतकामानीय गुरु अग्रे मुंचति श्रेष्टि गुरु चरणे शिरं निवेश्य एवं कथयति भो दयालु मम देवो रुष्टः मम ग्रहो शून्यो भवति । तेन कारणेन मम पुत्रभिक्षां देहि । गुरुणा प्रासु जलमानीय चरणौ प्रक्षाल्य तस्य छंटितं। सहसात्कारण सज्जो बभूव हर्ष वादित्राणि बभूव । लोकैः कथितं श्रेष्ट सुतः नूतन नन्मो आगतः । श्रेष्टिना गुरूणां अग्रे अनेकमणि मुक्ताफल सुवर्ण वस्त्रादि आनीय भगवान् गृह्यतां । गुरुणा कथितं मम न कार्ये परं भवद्भिः जिन धम्र्म्मो गृह्यतां । सपाद लक्ष श्रावकानां प्रति बोधि कारक । पूर्व श्रेष्ठिना नारायण प्रासादं कारयितुमारब्धं । स दिवसे करोति रात्रौ पतति सर्वे दर्शनिनः पृष्टा न कोपि उपायो कथितं तेन रत्नप्रभाचार्यो प्रष्टः - भगवान् मम प्रासादो रात्रौ पतति । गुरुणा प्रोक्तं कस्य नामेन कारयतः । नारायण नामेन । एवं नहि महावीर नामेन कुरु मंगलं भविष्यति । प्रासादस्य विघ्नं न भविष्यति श्रेष्टिना तथैव प्रतिपन्नं । अथ शासनदेव्या गुरूणां कथितं हे भगवन् अस्य प्रासाद योग्यं मया देव गृहात् उत्तरस्यां दिशी लूणद्रहाभिधानं डुंगरिकायां श्री महावर बिंबं कारयितुमारब्धं । तत्र तेन श्रेष्टिना गोपाल वचनात् गोदुग्ध स्त्रावकारणं ज्ञात्वा सर्वेपि दर्शनः पृष्टाः तैः पृथक् पृथक् भाषया अन्यदन्यदुक्तं । ततः श्रेष्टिना स आचार्योऽभिवंद्य पृष्टः ततः शासन देव्या वाक्यात् आचार्यो ज्ञात्वा एवं कथयति तत्र त्वत्प्रासाद योग्य बिंबो भविष्यति परं षट् मासैः सार्द्ध सप्त दिनैः निष्कासनीयं । श्रेष्टि उच्छुक संजातः । किंचिदुनैर्दिनैः निष्कासितः निंबु फल प्रमाण हृदयस्थ ग्रन्थीद्वय सहितं । आचार्यैः प्रोक्तं अद्यापि किंचित् असंपूर्ण बिंबं विलंबस्व श्रेष्टिना प्रोक्तं गुरूणां कर प्रासादात् संपूर्ण भविष्यति । तेनावसरे कोरंटकस्य श्राद्धानां आव्हानं आगतं । भगवन् प्रतिष्ठार्थमागच्छ । गुरुणा कथितं मुहूर्त वेलायां आगच्छामि ।
सप्तत्या ७० वत्सराणां चरम- - जिनपतेर्मुक्तजातस्य वर्षे पंचपक्षे सुरगुरुदिवसे ब्रह्मणः सम्मूहुर्ते । रत्नाचार्यैः सकलगुणयुतैः सर्वसंधानुज्ञातैः
श्रीमद्वीरस्य बिंबे भवशतमथने निर्मितेयं प्रतिष्ठा ॥ १ ॥ उपवेशे व कोरंटे तुल्यं श्री बीरविजयोः
प्रतिष्ठा निर्मिता शक्त्या श्रीरत्नप्रभसूरिभिः ॥ २ ॥
निजरूपेण उपकेसे प्रतिष्टा कृता वैक्रिय रूपेण कोरंटके प्रतिष्टा कृता श्राद्ध द्रव्यव्ययः कृतः । ततस्तेन श्रेष्ठिना श्री औपकेश पुरस्थ श्रीमहावीर बिंब पूजा आरात्रिका स्नात्रकरण देव वंदनादिविधिः श्रीरत्नप्रभाचार्यात् शिक्षिता । तदनंतरं मिथ्यात्वाभावात् श्रावकत्वं केषांचित् श्रेष्टिसंबंधिनां संजातं । ततः आचार्येण ते सम्यक्त्वधारी कृता । एकदा प्रोक्तं भो यूयं श्राध्दा तेषां देवीनां निर्दयचित्ताया महिष बोत्कटादि
Aho ! Shrutgyanam