________________
जैन साहित्य संशोधक
[५
कांतमणिर्यदमृतं खूते तच्चंद्रस्य प्रमाणं । सूर्यसारथी रविः आरूणः पंगोपि यदाकाशमुल्लंघयति तत्सूर्यस्य प्रमाणं । पुत्तालिका नृत्यं करोति तद्विंदजालिकस्य प्रमाणं । तथाऽहं मंदबुद्धिः मूर्खशिरोमणिः प्रमाणे सप्रमाणता नास्ति, लक्षणे सल्लक्षणता न, अलंकारस्याऽलंकरणं नहि, साहित्ये साहित्यं नास्ति, छंदासे सुछंदता न; एवंविधो पि वाचनाय साहसं करोमि तत् सद्गुरूणां प्रसादः । पुरातनैर्व्याख्या कृता । ममापि युक्तिः । कथं जं देवो सायरो लहरिगज्जंतनीरपडिपुन्नो । ता किं गामतलाओ जलमरिओ लहरिगा देऊ ॥ १ ॥ जइ भरह भावछंदे नच्चइ नवरंग चंगमा तरूणी । ता किं गामगहिल्ली तालिछंदेन नच्चेइ ॥ २ ॥ जइ दुद्धधवलखीरी तडफडइ विविहभंगेहि । ता कुक्कसकणसहिया रव्वडिया मा तडव्वडह ॥ ३ ॥ अहं यद्वेद्मि तद्गुरूणां प्रसादः ।
टालो रोलो रुलंतो अहियं विन्नाण नाण परिहीणो । दिव्वुव वंदणिज्जो विहिओ गुरुसुत्तहारण ॥४॥ ते गुरवः श्रीपार्श्वनाथ संतानीयाः ।
१ श्रीपार्श्वनाथ शिष्यः प्रथमो गणधरः श्रीशुभदत्तः । २ तत्पट्टे श्रीहरिदत्तः । ३ तत्पट्टे श्री आर्यसमुद्रः । ४ तत्पट्टे श्रीकेशीगणधरः तेन परदेशीनृपः प्रतिबोधितः । राजप्रश्नीयउपांगे प्रसिद्धः ।
९ तत्पट्टेश्रीस्वयंप्रभसूरिः । ( स्वयंप्रभसूरिशिष्य बुद्धकीर्तिसुं बौधमत नकिल्यो, आचारांग का जाणनो ) अन्यदा स्वयंप्रभसूरि देशनां ददतां उपरि रत्नचूडविद्याधरो नंदस्वरे गच्छन् तत्र विमानः स्तंभितः । तेन चिंतितः मदीयो विमानः केन स्तंभितः । यावत् पश्यति तावदधो गुरुं देशनाददंतं पश्यति । स चिंतयते मयाऽविनयः कृतः यतः जंगमतीर्थस्य उल्लंघनं कृतं । स आगतः गुरुं वंदति धर्मे श्रुत्वा प्रतिबुद्धः । स गुरुं विज्ञपयति मम परंपरागता श्रीपार्श्वजिनस्य प्रतिमास्ति तस्या वंदने मम नियमोऽस्ति सा रावणलंकेश्वरस्य चैत्यालये अभवत् । यावत् रामेण लंका विध्वांसता तावद् मदीयपूर्वजेन चंद्रचूडनरनाथेन वैताढ्य आनीता । सा प्रतिमा मम पार्श्वेस्ति । तया सह अहं चारित्रं ग्रहीष्यामि । गुरुणा लाभं ज्ञात्वा तस्मै दीक्षा दत्ता । क्रमेण द्वादशांगी चतुर्दश पूर्वी बभूव गुरुणा स्वपदे स्थापितः । श्रीमद्वीरजिनेश्वरात् द्विपंचाशतवर्षे (५२) आचार्य पदे स्थापितः । पंचाशतसाधुभिसह घरां विचरति । श्रीलक्ष्मीमहास्थानं तस्याभिधानं १ पूर्व नाम गुजरातिमध्ये कृतयुगे रयणमाला २ त्रेतायुगे रयणमाला ३ द्वापरे श्रीवीरनयरी ४ कलियुगे भनिमाल ५ तत्र श्रीराजाभीमसेन तत्पुत्त्रश्रीपुंज तत्पुत्र उत्पलकुमार अपरनाम श्रीकुमार तस्य बांधव श्री सुरसुंदर युवराज राज्यभारधुरंधर। तयोरमात्य चांद्रवंशीय द्वौ भ्राता तत्र निवासी सा० ऊहड १ उद्धरण २ लघु भ्राता गृहे सुवर्ण संख्या आष्टादश कोट्यः संति । वृध्दभ्रातुर्गृहे ९९ नवनवति लक्षा संति । ये कोटीश्वरास्ते दुर्गमध्ये वसति ये लक्षश्वरास्ते वाह्ये वसंति । तत ऊहडेन एकलक्ष भ्रातुः पार्श्वे उच्छीर्ण याचितं । तो बांधवेन एवं कथितं भवते विना नगरं उध्वसमस्ति भवतां समागमे वासो भविष्यति । एवं ज्ञात्वा राजकुमार ऊहडेन आलोचितवान् नूतनं नगरं वसेयं ततो मम वचनं अग्रे आयातः । ढीलीपुरे राजा श्री साधु तस्य ऊहडेन ५५ तुरंगमा भेटिकृता उवएसा संतुष्टो ददौ । ततो भीनमालात् अष्टादश १८ सहस्र कुटुंब अगात् । द्वादश योजना नगरी जाताः । तत्र श्रीमद्रत्नप्रभसूरीपंचसयासीष्य समेत लुणद्रही समायाति । मासकल्प अरण्ये स्थिता । गोचर्यं मुनीश्वरा व्रजेति परं भिक्षा न लभते । लोका मिथ्यात्व वासिताः यादृशा गता तादृशा आगता मुनीश्वराः । पात्राणि प्रतिलेष्य मासं यावत् संतोषेण स्थिताः पश्चात् विहारः कृतः । पुनः कदाचित् तत्रायातः । शासनदेव्या कथितं भो आचार्य अत्र चतुर्मासकं कुरु ।
Aho ! Shrutgyanam