________________
-प्रदीपिका
ज्ञान-:
पृष्ठोदये तु गमनं क्रमेण शुभदं वदेत् ॥६॥ द्वितीये च तृतीये च तिष्ठन्ति यदि पुंग्रहाः । त्रिदिनात्पत्त्रिकायाति दूतो वा प्रेषितस्य च ॥१०॥ लग्नार्थ सहजव्योमलाभेष्विन्दुज्ञभार्गवाः । तिष्ठन्ति यदि तत्काले चावृत्तिः प्रोषितस्य च ॥११॥ शुभद्दष्टे शुभयुते जीवे वा केन्द्रमागते । बुधrial त्रिकोणे वा प्रोषितागमनं वदेत् ॥ १२ ॥ चतुर्थे द्वादशे वापि तिष्ठन्ति चेच्छुभग्रहाः । पत्रिका प्रोषिताद्वार्ता समायाति न संशयः ॥ १३॥ षष्ठे वा पञ्चमे वापि यदि पापग्रहाः स्थिताः । प्रोषितो व्याधिपीडार्थं समायाति न संशयः ||१४|| चापोतागसिंहेषु यदि तिष्ठति चन्द्रमाः । चिन्तितस्तत्तदायाति चतुर्थे तदागमः ॥१५॥ स्वोच्चस्वषु तिष्ठन्ति शुक्रजीवेन्दुसोमजाः । प्रयाणागमनं ब्रूयात् तत्तदाशासु सर्वदा ॥ १६ ॥ प्रहाः स्वक्षेत्रमायान्ति यावत्तावत्फलं वदेत् ।
गृहं प्रविष्टे वा पृष्ठतोऽपि ग्रहं गतः ॥ १७॥ चतुर्थान्तान्तरगतेः मार्गमध्ये फलं वदेत् । मध्यान्तरगतेर्वाच्यं गजदेशे शुभावहम् ॥१८॥ शुभग्रहवशात्सौख्यं पीड़ां पापग्रहैर्वदेत् । सप्तमाष्टमयोः पापास्तिष्ठन्ति यदि च ग्रहाः ॥ १६॥ प्रोषितो हृतसर्वस्वस्तत्रैव मरणं व्रजेत् षष्ठे पापयुते मार्गगामी बद्धो भविष्यति ||२०|| जलराशिस्थिते पापे विरेणायाति चिन्तितः । इति ज्ञात्वा वदेद्धीमान् शास्त्र ज्ञानप्रदीपके ॥२१॥ इति यात्राकाण्डः ।
Aho! Shrutgyanam