________________
ज्ञान- प्रदीपिका ।
विपरीतेषु युद्ध' स्यात् भानौ द्वादशके विधौ । तत्र युद्ध न भवति शास्त्र ज्ञानप्रदीपके ॥३०॥ चरराशिस्थिते चन्द्र चरराभ्युदयेऽपि वा । आगतारेहि सन्धानं विपरीते विपर्ययः ॥ ३१ ॥ युग्मराशिगते चन्द्र युग्मराश्युदयेऽपि वा । अर्धमार्ग समागत्य सेना प्रतिनिवर्वतेः ॥ ३२ ॥ सिंहाद्या राशयः षट् च स्थायिनो भास्करात्मकाः । कर्कात्क्रिमाः षट् च यायिनश्चन्द्ररूपिणः ||३३|| स्वायी यायी क्रमेणैवं ब्रूयाद्ग्रहवशात् फलम् । इति सेनाकाण्डः ।
अथ यात्राकाण्डः ।
arates प्रवक्ष्यामि सर्वेषां हितकांक्षया । गमनागमनञ्चैव लाभालाभौ शुभाशुभौ ॥१॥ विचार्य कथयेद्विद्वान् पृच्छतां शास्त्रवित्तमः । मित्रक्षेत्राणि पश्यन्ति यदि मित्रग्रहास्तदा ||२|| मित्रस्यागमनं ब्रूयात् नीचानीचग्रहा यदि । नीचाय गमनं ब्रूयात् उच्च नुञ्चग्रहाणि च ॥३॥ स्वाधिकागमनं ब्रूयात् पुंराशि पुंग्रहा यदि । पुरुषागमनं ब्रूयात् स्त्रीराशि स्त्रीग्रहा यदि ॥४॥ स्त्रीणामागमनं ब्रूयादन्येष्वेवं विचारयेत् । चरराभ्युदयारूढे तत्तग्रहविलोकने ॥५॥ तत्तदाशासु गच्छन्ति पृच्छतां शास्त्रनिर्णयः । स्थिरराभ्युदयारूढे शन्यकारकाः स्थिताः ॥६॥ अथवा दशमे वा चेद् गमनागमने न च । शुकसौम्येन्दुजीवाश्च तिष्ठन्ति स्थिरराशिषु ||७|| विद्यते स्वेष्टसिद्ध्यर्थे गमनागमने तथा । स्थितिप्रश्ने स्थितिं प्रयान्मस्तकोदयराशिषु ॥८॥
Aho! Shrutgyanam
३७