________________
ज्ञान-प्रदीपिका। अर्धक्षणे सुराचार्यत्रिपात्पादार्धयोः कुजः ॥८॥ पादेक्षणे बली सौरिः वीक्षणाद्वलमीरितम् । तिर्यक पश्यन्ति तिर्यञ्चो मनुष्याः समदृष्टयः ॥६॥ ऊर्वेक्षणः पत्नरथः अधोनेवाः सरीसृपाः । अन्योन्यालोकितौ जीवचन्द्रौ ऊर्वेक्षणो रविः ॥१०॥ पश्यत्यरः कटाक्षेण पश्यतोऽधः कवीन्दुजौ । एकदृष्ट्याहिमंदौ च ग्रहाणामवलोकनम् ॥११॥ मेषः प्राच्यां धनुःसिंहावग्नावुत्तश्च दक्षिणे । मृगकन्ये च नैर्मृत्यों मिथुनः पश्चिमे तथा ॥१२॥ वायुभागे तुलाकुम्भौ उदीच्यां कर्क उच्यते । ईशभागेऽलिमीनौ च क्रमान्नष्टादिसूचकाः ॥१३॥ अर्कशुक्राररार्किचन्द्रज्ञगुरवः क्रमात् । पूर्वादीनां दिशामीशाः क्रमान्जष्टादिसूचकाः ॥१४॥ मेषयुग्मधनुःकुम्भतुलासिंहाश्च पूरुषाः । राशयोऽन्य स्त्रियः प्रोक्ता ग्रहाणां भेद उच्यते ॥१५॥ पुमांसोऽर्कारगुरवः शुक्रन्दुभुजगास्त्रियः । मन्दशकेतवः क्लीवा ग्रहमेदाः प्रकीर्तिताः ॥१६॥ तुलाकोदण्डमिथुना घटयुग्मं नराः स्मृताः । एकाकिनी मेषसिंहौ बृषकालिकन्यकाः॥१७॥ एकाकिन्यः स्त्रियः प्रोक्ताः स्त्रीयुग्मं मकरान्तिमौ। एकाकिनोऽन्दुकुजाः शुक्रज्ञार्काहिमन्त्रिणः॥१८॥ एते युग्मग्रहाः प्रोक्ताः शास्त्र ज्ञान-प्रदीपके । विप्राः कालिमीनाश्च धनुःसिंहक्रिया नृपाः ॥१६॥ तुलायुग्मघटा वैश्याः शूद्रा नक्रोक्षकन्यकाः। नुपौ अर्ककुजौ विप्रो बृहस्पतिनिशाकरौ ॥२०॥ बुधो वैश्यो भृगुः शूद्रो नीचावयंभुजंगमौ । रक्ताः मेषधनुःसिंहाः कुलीरोक्षतुलाः सिताः ॥२१॥ कुम्भालिमीनाः श्यामाःस्युः कृष्णयुग्मांगना मृगाः। शुक्रः सितः कुजो रक्तः पिङ्गलाङ्गो बृहस्पतिः ॥२२॥ बुधः श्यामः शशी श्वेतः रक्तः सूर्योऽसितः शनिः । राहुस्तु कृष्णवर्ण: स्योत् वर्णभेदा उदाहृताः ॥२३॥
Aho! Shrutgyanam