________________
ज्ञान- प्रदीपिका ।
उत्तवीथ्यामुदीयन्ते मीनमेषतुलाः स्त्रियः ॥३०॥ राशिचक्र समालिख्य प्रागादिवृषभादिकम् । प्रदक्षिणक्रमेणैव द्वादशारूढसंज्ञकम् ॥३१॥ वृषश्चैव वृश्चिकस्य मिथुनस्य शरासनम् । मकरस्तु कुलीरस्य सिंहस्य घट उच्यते ||३२|| मीनस्तु कन्यकायाश्च तुलाया मेष उच्यते । प्रतिसुतबशादेते परस्पर निरीक्षकाः ||३३|| गगनं भास्करः प्रोक्तो भूमिश्चन्द्र उदाहृतः । पुमान् भानुर्बधूश्चन्द्रः खचक्रप्राणवन्तवि: ( 2 ) ||३४|| भूचक्रदेहश्चन्द्रः स्यादिति शास्त्रस्य निर्णयः । रवेः शुक्रः कुजस्यार्कः गुरोरिन्दु रहेर्बुधः ॥३५॥ ध्वजादिव्युत्क्रमेणैव तत्तत्कालं विनिर्दिशेत् ।
इत्यारूढछताः
अथ धातुचिन्ता
प्रष्टुरारूढमं ज्ञात्वा तद्विद्यामवलोक्य च । आरूढाद्यावती बिधिस्तावती तूयादिका ॥१॥ तद्राशिच्छत्रमित्युक्त शास्त्र ज्ञान- प्रदोषके । आरूढाद्भानुगां वीथीं परिगण्योदयादितः ||२|| ता ता राशिना छतमिति केचित् प्रचक्षते । मेषस्य वृषभं छतं मैच्छत्र' वृषस्य च ॥३॥ युग्मकर्कटसिंहानां मैच्छत्रमुदाहृतम् । कन्याया वृषभं छत्र तुलाया वृषभस्तथा ॥४॥ वृश्चिकस्य युगच्छतं धनुषो मिथुनं तथा । नक्रस्य मिथुनच्छत्र युगः कुम्भस्य कीर्त्तितः ॥५॥ मीनस्य वृषभच्छत्रं छतमेवमुदाहृतम् । उदद्यात्सप्तमे पूर्णमर्थं पश्येत्रिकोणके ॥६॥ चतुरस्र त्रिपादं च दशमे पाद एव च ।
कादशे तृतीये च पदार्धं वीक्षणं भवेत् ॥७॥ रवीन्दुसित सौम्यास्तु बलिनः पूर्णवीक्षणे ।
Aho! Shrutgyanam