________________
पण्डितश्रीरामाश्रमप्रणीता
सिद्धान्तचन्द्रिका सुबोधिन्या तत्त्वदीपिकाव्याख्यया चक्रधराख्य-टिप्पण्या लिङ्गानुशासनप्रक्रियया उणादिकोषेण च सहिता।
(उत्तरार्द्धम् ) अयि सरलहृदयाः व्याकरणाध्येतारः !
विदितमस्ति समेषां भवतां सिद्धान्तचन्द्रिकानाम व्याकरणम् । साम्प्रतमस्माभिस्तत् सुबोधिन्या-तत्वदीपिकया टीकया च सह कवितार्किकवैयाकरणेन श्रीनवकिशोरकरशास्त्रिणौत्कलीयेन प्रणीतया सर्वहितकारिण्या चक्रधराख्यटिप्पण्या सनाथीकृत्य भवतामुपकारायैव परिशुद्धतया प्राकाश्यं नीतम् । अपि चात्र व्याख्यासमेतं लिङ्गानुशासनप्रकरणं समावेशितम् , यत् अद्यावधि सिद्धान्तचन्द्रिकाया अङ्गवैकल्यमुपपाद्याऽऽसीत् । किञ्चास्मिन् ग्रन्थे मातृकाक्रमेणोणादिशब्दानां कोषोऽपि धातुप्रत्ययतदर्थेन समं साहित्यशास्त्राध्येतृणामन्येषां चोपकाराय निवेशितः । अन्यच्च सूत्राणां सूची धातूनां सूची च ग्रन्थान्ते प्रदत्ताऽभूतपूर्वा । पाणिनीयव्याकर. णापेक्षया यस्मिन्नंशे सिद्धान्तचन्द्रिकाया न्यूनतासीत् , तत् कृत्स्नमुक्तटिप्पण्या विशेषतया वर्तते । मूलग्रन्थस्य सुबोधिनीतत्त्वदीपिकायाश्चातीव गूढविषयाणां सशङ्कोत्तराणि सुविस्तृतत्वेन टिप्पण्या निरुक्तायां वर्तन्ते । एतट्टिप्पणीपठनपाठनेनैव सारस्वतचन्द्रिकाध्येतृवर्गाणां न्यायविषयक शाब्दखण्डीयव्याकरणविषयकं च निपुणं ज्ञानं समायास्यति । पाणिनीय. व्याकरणाध्येतृच्छात्रैः सह शास्त्रार्थयितुं परिनिष्ठिता बुद्धिरपि प्रादुर्भवि. प्यति । अपि च निरुतटिप्पण्यां चुरादिगणे पूर्वीपेक्षया एक. शततोऽधिको धातूनां पाठः, तथैवादादिगणे तुदादिगणे हादिगणे भ्वादिगणे च प्रयोजनीयः पाठः प्राचीनहस्त. लिखितपुस्तकप्रमाणेन टिप्पणीकतृभिनियोजित आस्ते । तथैव प्राचीनकाव्यादिस्थितसन्दिग्धपदनां ससमाधानं यत्र यत्र येन येन कविनोल्लिखितं तत्पद्यमपि स्थले स्थले टिप्पण्यां प्रदर्शितम् । किंबहुना वारमेकं पुस्तकस्यास्य परीक्षा प्रार्थनीया । अल्पकालेनैवास्यपूर्वार्द्ध प्राकाश्यं प्राप्स्यति । ग्रन्थस्यास्य क्रयसमयेऽस्मत्प्रकाशितपुस्तकमवलोक्य पुस्तकान्तरं क्रेतव्यं चेत् तर्हि केतव्यमिति सर्वथा भवत्सु प्रार्थना ।
मूल्यम् , २) सार्धं रुप्यकद्वयम् । प्राप्तिस्थानम्-हरिकृष्णनिबन्धभवनम् , बनारस सिटी।
Aho! Shrutgyanam