________________
( ८३ )
इति शुक्रदशा ।
जीवः स्वायमुपगम्य नृपप्रसाद स्थानान्तरञ्च बहुवित्तसमागमञ्च । यानादिलाभमहितस्य जनस्य हार्निं रोगक्षयश्च कफरोगसमुद्भवञ्च ॥ १ ॥ जैवीं दशामुपगतो दिनकृत्करोति रोगक्षयं 'रिपुभयञ्च महाप्रतापम् । मानं परिभ्रमणमुज्ज्वलमित्रयोगं द्रव्यञ्च भूतमुदितं क्षयमाशु तस्य ॥ २ ॥ इन्दुः समेत्य गुरुणा गुरु गौरवञ्च गौराङ्गनाजनसमागममिष्टलाभम् । क्षेत्रस्य हानिमलसप्रकृतिश्च किश्चित् सञ्चारणञ्च बहुशः करुते मुदञ्च ॥ ३ ॥ शुक्रः सुरस्य समयं प्रतिपद्य धत्ते पितज्वरं जठररोगमनेकधा च । भूतेर्भयं विभवहानिमनर्थबुद्धिं बुद्धिक्षयश्च सह बन्धुजनेन वैरम् ॥ ४ ॥ कुर्यादूबुधः सुरगुरोः समयं प्रपन्नः क्लेशञ्च पाशयमनञ्च महामयञ्च । स्थानच्युतिञ्च परिलुप्ति महीप्सितानां शस्त्रव्रणञ्च मरणव्यसनावसानम् ॥ ५ ॥
भौमः सुरेन्द्रगुरुणा सहितो हितानि सम्पत्तिमुत्तमगुणञ्च मुदं करोति ।
१ रिपुहानिञ्च ॥
Aho! Shrutgyanam