________________
शिशवश् शस्त्रकाष्टाश्च पाणयस्तु परस्परम् । प्रहरच्छिन्दिभिन्दीति निगदन्तो भयप्रदाः ॥ १४ ॥ चित्रितश्चित्ररूपानां तभक्तानां भयपदाः । विकृतप्रसवस्तत्तर्गशून्यत्वमावहेत् ॥ १५ ।। अनेर्भयङ्करो घोषो नागेरुज्वलनं तथा । रसितं लोहभाण्डानां गमनश्च भयप्रदम् ॥ १६ ॥ अप्राणिनां वचोवीतशरीराणाञ्च गर्जनम् । सलिले शोणरेखा च न चिराद भयमादिशेत् ॥ १७॥ सस्यक्षजलानाञ्च दृष्टिभूतलभूभृताम् । उत्पातः प्रभुनाशाय सर्वश्चादभूतदर्शनम् ॥ १८ ॥ उन्मत्तानाञ्च या गाथाः शिशूनां भाषितञ्च यत् । स्त्रियोयच्चप्रभासन्ते तस्य नास्ति व्यतिक्रमः ॥ १९ ॥ पाशाण्डानां नास्तिकानाञ्च वादः साध्वाचारमोज्झितः क्रोधशीलः । ईर्षालू र्वा विग्रहेच्छु नपो वा यस्मिन् देशे तस्य नाशो न दूरः ॥ २० ॥ सीमासीमन्तिते सर्वप्रदेशे स प्रजापतिः । नक्षत्रराशिराश्यार्द्धस्तत्क्षणेन ग्रहान्वितः ॥ २१ ॥ द्वे रेखे दीर्घतो गर्भे तिर्यग्वाष्टौ समालिखेत् । मध्ये प्रजापतिस्त्रत्र माज्दक्षिणेन तारकः ॥ २२ ॥ तिर्यग्मध्यमसूत्रस्य तत्तद्वारं ब्रतादिषु । तदधस्तारकापूर्व मृक्षं सर्वत्र योजयेत् ॥ २३ ॥ त्रयोदश बिनाडीम्भिरधिके घटिका द्वये ।
१ श्योनस्वप्रतिचक्रगाः। २ पाणयास्तु। ३ सोणनरेखा । ४ ज्वलानाञ्च । ५ एध्यस्ते । ६ तदद्वारं त्रीधिदाम सु।
Aho ! Shrutgyanam