________________
( ५६ ) अभिष्टतिथिभिर्भक्त्वा शिष्टमोजे यादे स्थितम् । यदा वा परिवेषः स्यात्तयोरिति वदेद् बुधः ॥ ७ ॥ सर्व्वव्योमानगामी यः परिवेषः सशोणिमः । धनुशृंगाटकप्रतिमश्च न शोभनः ॥ ८ ॥ सेनाधिपस्य भयकृत् परिवेषो विमण्डलः । त्यादिभि शस्त्रकोपश्च युवराज नरेन्द्रहा ॥ ९ ॥ निरुद्धे सार्द्धमृक्षेण ग्रहे मण्डलरेखया | दिनत्रये न दृष्टिवा विग्रहोंवा थ मासवः ॥ १० ॥ होरायाः जन्मराशे वपितिर्जन्मक्षमेव वा । अन्तर्भवतिचक्रेचेत्तस्य राज्ञोशुभम्भवेत् ॥ ११ ॥ परिवेषगतो भौमः शस्त्राग्निभयदो भवेत् । बुध स्सुवृष्टिकृन्मन्त्री लेखकानाञ्च वृद्धिदः ॥ १२ ॥ जीवः पुरोहितामात्यभूपालानां विबाधकः । शुक्रः प्रायायिनां राज्ञां पीडयेदन्नहानिकृत् ॥ १३ ॥ शनिः कुधान्यविध्वंसी जनयेद् दृष्टिमारुतौ । राहुर्नृपभयं व्याधिं केतुर्गर्भभयं दिशेत् ॥ १४ ॥ यो निरुद्धयोर्युद्धं जानीयात् क्षुद्भयं त्रिषु । क्षयो लोकस्य निर्दिष्टो ग्रहेषु चतुरादिषु ॥ १५ ॥ विमादीनां क्षयं कुर्य्यात्क्रमात्मतिपदादिषु । श्रेणी नगरकोशानां पञ्चम्यादिषु नाशकृत् ॥ १६ ॥ अष्टम्यां युवराजस्य परस्त्रीषु च भूभुजां । द्वादश्यां नगरक्षोभ त्रयोदश्यां चमूभयम् ॥ १७ ॥ परतो महिषीनाशः पञ्चदश्यां नृपाशुभम् । ऋक्षग्रहवशाज् ज्ञेयः कालवर्गो बलोत्तरः ॥ १८ ॥ इतिपरिवेषनिर्णयः ।
Aho! Shrutgyanam