________________
( २० )
तिथेः खनायजेदेकं शुक्ले कृष्णे तु योजयेत् । विभज्य सूनुना शेषं जानीयात् करणं चैरम् ॥ १ ॥ वञ्च बालवञ्चैव कौलवन्तैतिलं तथा । गरजो वणिजो विष्टिश्चरतः करणसप्तकम् ॥ २ ॥ कृष्णपक्षे चतुर्दश्यामारभ्याचरमं दलम् | शुक्ल प्रतिपदः पूर्व्वदलो यावद्यथाक्रमम् ॥ ३ ॥ शकुनिश्च चतुष्पादो नागः किंस्तुघ्न इसपि । एवमर्द्धानि चत्वारि ध्रुवाणि करणानि च ॥ ४ ॥ इति करण निर्णयः ।
भानुः कलिदिने क्षिप्ता खनाइस लुनाहृतम । अभीष्टतिथिसङ्ख्याः स्युः दत्वा तानवशेषितैः ॥ १ ॥ लक्ष्मी कलिश्च नन्दा च कालकर्णिजयाविधिः । धनुर्नमितिविज्ञेयं वाराणामिह सप्तकम् ॥ २ ॥ हरो दुर्गा गुहो विष्णु ब्रह्मा लक्ष्मीर्धनेश्वरः । एते सूर्य्यादिवारेनाः सर्व्वे स्वाख्याः क्रियाशुभाः ॥ ३॥ इति वारदेवताः ।
-
एवमृक्षं तिथिर्योगः करणश्च चराचरम् । वारश्चेति विजानीयात् पञ्चाङ्गं दैवचिन्तकः ॥ १ ॥ इति पञ्चाङ्ग निर्णयः ।
१ नम्ना । २ घरम् । ३ प्रतिपदः । ४ बेनाहत्य ।
Aho! Shrutgyanam