SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ( २०१ ) लये बुधांशकस्थश्चेदिन्दुज्ञार्कबुधोदये । बुधवारेऽस्य होरायां योगो मोहविनाशनः ॥ ६५ ॥ अनुक्ता ये ग्रहास्ते च स्वात्युच्चोदयगाः यदा । स्ववारे च स्वहोरायां योगाः स्युः ज्ञानसाधकाः ॥ ६६ ॥ वारनक्षत्रयोगाः ये शुभास्तत्र दिनाधिपे । लग्नगे तस्य होरायां योगो मूगप्रभाषकः ॥ ६७ ॥ वाणीं गणेशञ्च गुरुश्च भक्त्या सम्पूज्यमाना बलिभिः प्रभूतैः । कृताभ्यनुज्ञे गुरुणारभेत शास्त्राणि पूर्वाभिमुखः कुमारः ॥ ६८ ॥ यथोक्तयोगसद्भावे नात्र दोषं विचारयेत् । इन्दोरे परा च विद्यामुक्तिर्विधीयते ॥ ६९ ॥ इत्यध्ययनविधिः । -000 समावर्त्तविधिर्नाम स्नानरोमछिदादयः । विद्यान्ते च ब्रतान्ते च विधिरेष विधीयते ॥ ७० ॥ आदि सौम्य सावित्र्यमत्र तिष्योत्तरत्रयम् । रोहिणीश्रवणपुष्या सौम्यवारोदयादयः ॥ ७१ ॥ द्वितीया च तृतीया च पञ्चमी सप्तमी तथा । दशमी द्वादशी शस्ता विशेषेण त्रयोदशी । नृपाणां पूज्यते षष्टी वैश्यानां दशमी तथा ॥ ७२ ॥ इति समावर्त्तनविधिः । एप षोडशिको भूत्वा प्रविश्य गृहमेधितास । इष्टापूर्त्तविधानञ्च गोदानञ्च समाचरेत् ॥ ७३ ॥ २६ Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy