________________
( १८६ ) जन्मतो दशमे चाह्नि द्वादशे वाथ पोडशे ॥ १०९ ॥ सप्तमे मासि वा कुर्यादष्टमे वा विचक्षणः । उक्तकालव्यतिक्रान्तावायुग्माब्देऽपि कारयेत् ॥ ११० ॥
पुष्यादितिश्रवणसोमशिवश्रविष्टाः तिष्योत्तरत्रयसहस्रकराः प्रशस्ताः । पाष्टमीविरहितास्तिथयो विरिक्ता विष्टीतराश्च शुभदाः शुभवासराद्याः ॥ १११ ॥ वृषवर्जाःस्थिराःसर्वे न शुभा मकराजहौ । मध्यमा अवशिष्टास्तु शोभनाः कर्णवेधने ॥ रुन्धारिब्ययगोनेष्टो गुरुःशेषेषु शोभनः । सुतरन्ध्रगताःसौम्याः नेष्टाः स्युः कर्णबेधने ॥ ११२ ॥ षट्सप्ताष्टमगः शुक्रो न शुभोऽन्यत्र शोभनः । इन्दुस्तृतीये पुत्रस्त्री धर्मकायगः शुभः ॥११३।। विशुद्धमष्टमस्थानं पापाश्च त्रिषडायगाः। लग्नं हष्पतिक्षत्रं शोभने कर्णवेधने ॥ ११४।। अभ्यर्च्य दैवज्ञभिषग्वरेण्यौ समङ्गलं शङ्खमुदङ्गनादैः । यथाक्रमं दक्षिणवामकर्णी पुसस्त्रियोस्तौ विपरीतवेध्यौ११५ कुटजं नरवीरश्च साङ्गली चित्रकं तथा। अपामार्गोऽश्वगन्धा च शुष्कं संचूर्ण्य तैलयुक् ॥ ११६ ॥ लेपयेत् कर्णवल्यन्तु मांसलावस्थिरा भवेत् । इदं सर्वत्र निर्दिष्ट मूनावयवपूरणे ॥ ११७ ॥ अश्विनीहस्तमैत्रेषु शुभवारांशकोदये । सम्पूर्णमण्डले चन्द्रे दापयेच्छृतिभूषणम् ॥ ११८ ॥ संक्षा लोके पशूनाञ्च दाशानाश्च विधीयते ।
१ लोम।
Aho ! Shrutgyanam