SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ( १६५ ) मुविचार्य ततः कार्यमारभेत विचक्षणः ॥ १६ ।। विशाखादित्रयं याम्यशशाङ्कःशङ्करो मघा । तिथयःशैलवेदार्का निन्दिता रविवासरे ।। १७ ॥ विशाखादिद्वयं वह्निराप्यादिद्वितयं मघा । तिथयश्चाङ्गरुद्राख्याः नेष्टा वारे हिमत्विषः ॥ १८ ॥ विष्णुवारुणदेवेन्द्रबासवाजकपालिनः । शरादिछिद्रदिक्सङ्ख्याःतिथयो न शुभाः कुजे ॥ १९ ॥ वसुयमभयमूलान्याजभेश्चान्द्रिवारः तिथिभिरभिदिशानिद्रेककैश्चावयोगः। जलधिशशिभगाारोहिणीभैर्युतो वा तिथिभिर्ऋतुनवाष्टौर्युतो जीववारः ॥ २० ॥ पुष्यादिभत्रयं शुक्रो विशाखादिद्वयं विधिः। दिक्छिद्राद्रिद्विनागाख्याः स्वास्तिथयो न शुभाःसिते॥२१॥ आर्यमादित्रयं पूषा श्रवणाप्यपुनर्वसुः । तिथयःशैलनागाङ्गरुद्राख्या न शनौ शुभाः ॥ २२ ॥ इत्यवयोगः। भानुभानुजभौमानां वारवर्गाश्च पापकाः । तेषां तु शुभदृष्टस्य भानोर्वारो न दृष्यते ॥ २३ ॥ षट्वेदनागाङ्गदशाष्टभानुविक्दश्रभान्वब्धिकरायाश्च । विदध्युरेतास्तिथयोऽनिभीति क्रमेण मेषादिगते खरांशौ ॥२४॥ भान्वादिवारेषु कृशानुचित्राब्रह्मान्तकार्दाश्रवणान्ययुक्ताः। वाणाक्षिपूर्णे चलकामषष्टीभुजङ्गमाख्यास्तिथयो विषाख्याः॥२५॥ इति विषयोगः। --0१ खै । २ षट्वेग। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy