________________
( १४७ ) पापाक्षेत्रं संश्रिते धर्मजायाधीरन्ध्राम्बुस्थानगे सूर्यपुत्र । क्रूरैदृष्टे खेचरैरस्तिबन्धः क्षिप्रं पुंसस्तद्विदा वाच्यमेतत् ॥११२॥ लग्ने चरे स्यादीचेरण मोक्षः स्थिरेप्यश्चावस्तिपरश्चिरेण । द्विदेहवत्तिन्यहिमांशुपुत्रे कालेनसःस्यात् खलु मध्यमेन ॥११३॥
इति बन्धनमोक्षादेशः ।
---000----- सौम्ये सौम्यालोकिते खेचरेन्द्रे जायालग्नच्छिद्रधिस्थानसंस्थे । पालेयांशौ षट्दशायत्रिसंस्थे रोगव्यापपीडितानां शुभं स्यात् ॥ ११४ ॥ उपचयोपगते हिमगौ शुभे नवमपञ्चमकेन्द्रधनस्थिते । शुभविलोकनभे यदि चोदये
भवति रोगयुतोऽपि मुखी नरः ॥ ११५ ॥ पूर्णः शशाङ्को यदि लग्नवर्ती विलोक्यते चित्रशिखण्डिजेन । शुक्रामरेट्यावपि केन्द्रगौचत्पीड़ादितःस्यातमुखितस्तदानीम् ११६ लग्नस्थो वा नैधनस्थानगो वा पापःप्रष्टुभिवेश्मस्थितो वा। व्याध्युरेदं निर्दिशेद्वर्त्तमानं यद्वा दुःखं स्याद्धिकष्टं प्रयातम् ११७ स्वभवनोदयगः कुरुते रुजं मरणकृन्निघनं मदनेऽथवा । कलिकरुः खलु पृच्छकलग्नगो व्ययकरश्च पुनर्व्ययवेश्मगः ११८ यदि विलग्नगतं शशिपुत्रकं शशधरं यदि वोदयमागतम् । समवलोकयतीह शुभेतरो नियतमेव तदा रुजमादिशेत् ॥११९॥ पृष्टोदये लग्नगते यदि स्युः क्रूराश्चतुर्थस्मरलग्नभाजः । निशाकरो रन्ध्रगतस्तदानी रोगादितं प्राणविनाशमेति ॥१२०॥
१ पुंस्तमिद ।
Aho ! Shrutgyanam