________________
( ११८ ) विभर्ति यस्योपरि वारणो वा सितातपत्रं नृपतिदिजो वा। ददाति गौरी यदि पुण्उरीकंदासोऽपि सःस्यादिह सार्वभौम:१३ अर्केन्दुगोशृङ्गविनिर्गतेन स्नानाभिषेकौ सलिलेन पाणौ । स्वप्ने गवां वा मुखदोहनश्च नृमूर्धहृन्मांसनिसेवनञ्च॥ १४ ॥
अन्त्रैश्चोदरनिर्गतैर्गिरिगृहग्रामादिसंवेष्मणं कन्थायां परिरम्भने च सहसा स्वाङ्गप्रवेशोऽथवा । भुक्तिर्वा स्वसनश्च सिंहकरिणामारोहणं तेषु वा ग्रासश्चोदधिकाश्वपीक्षितिभृतां राज्यश्रियःसिद्धये ॥१५॥
तृणतरुकुसुमाम्बुप्रोद्भवे वा स्वनाभौ दिनकरशशितारा भक्षणस्पर्शने वा । विदलति निजशीर्षे सप्त पञ्च त्रिधा वा
क्षितिगिरिपरिवर्तोन्मूलने वापि राज्यम् ॥१६॥ जये रणे वा व्यवहारवादे पुरीपभुक्तिभुवियस्य बीक्ष्य । अगम्यनारीगमनश्च मृत्युःस्वशोतिभूरिद्रविणागमाय ॥१७॥
सितसुरभिमनोज्ञालेपमाल्याम्बराणाम् सुरगुरुनृपगौरी ब्राह्मणानाञ्च दीक्षा । मणिरजतसुवर्णाम्भोजपात्रेषु भुक्ति
यदि दधिपरमान्नेशोणिते मर्जनञ्च ॥ १८ ॥ सिततुरगफलध्वजातपत्रव्यजनसरोजमणिद्विपेन्द्रलाभाः । प्रभवजयवभुक्षवेतिशब्दा:परिमितराज्यफलप्रदा भवन्ति१९ मुद्रादृशदानी द्विपञ्चस्त्री सज्ञाप्तिषु चाङ्गणाप्तिरुक्ता । लब्धे सरकेऽथदर्पणे वाँ भृङ्गारादिषु चोद्भवःसुतस्य ॥२०॥ क्रमिन्येधनलब्धिरम्बुतरणे शोकस्य नाशो भवे द्वर्षारोदितशोचितादिषु तथा देहे विद्धिमता ।
१ वजोवा । २ यस्यादि । ३ दिराध्यम् । ४ सस्य ५ स्वसोनि । ६ मणिपेन्द्र । ७ प्रहारादिसु । ८ मिणोदन ।
Aho ! Shrutgyanam