SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०३ > शीतालुराहवजयी बहुबन्धुमित्रो धर्मध्वजो नृपगृहप्रभुरिङ्गितज्ञः । शूरो नितान्तकमनीयतनुः कृशाङ्गः सम्पन्नभूतिरणघः किल विश्वजातः ॥ ८७ ॥ विद्वानगम्यवनितानिरतः प्रकाशो ज्ञातेन्द्रजालचरितो भुजशक्तिशाली । शाठ्यः प्रयोगनिपुणः क्षितिपालमुख्यः सौभाग्यभाग्यनिलयः श्रवणाभिजातः ॥ ८८ ॥ सत्याधिकःसलिलकेलिरतः कृतघ्न्नः श्रीमान् निगूढचरितः परपीड़नेच्छुः । शौरः शिरालकरणः कविबन्धलुब्धो नीचाङ्गनामुनिरतो वसुभप्रजातः ॥ ८९ ॥ क्रूरः पृथूरुचरणः करभाभकण्ठः पापप्रियश्च वटरःक्षयवृद्धियुक्तः । सत्यालयः सुबहुवृद्धवधूपतिश्च सर्वोन्नतिः सुमतिमान् शतभप्रजातः ॥ ९० ॥ क्षोणीजलब्धविभवः सुभगो यशस्त्री गूढकियःक्षणविहीनविवृद्धवित्तः । उद्दामवृत्तिरपटुः कविरिङ्गितज्ञः सद्भन्धुमित्र पुरुषः परुषोजपादः ॥ ९१ ॥ सर्व्वप्रियः समसुसंहतगात्रसन्धिः सन्धान सत्यवचनैःसलिलोदितश्च । गोमानतीव कृपणः परदारशक्त श्चाप्रचारकुशलो यमुपान्त्यजातः ॥ ९२ ॥ १ रपशु । २ च शुभ | ३ शतपाप्रजातः । ४ सलिलोहितस्वः । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy