________________
श्चाटूपचारनिरतः किल पुष्यजन्मी ॥ ७४ ॥ शीर्षोन्नतः प्रचुरभक्षणबद्धबुद्धि देषोल्वणः क्षपणकः प्रणयीन्द्रमायी। उच्चःशिरास्तततनुर्विधुरः शयालु मूर्खः परस्वसुखितो भुजगःजन्मा ।। ७५ । अल्पात्मजः पृथुतनुः समसंहतात्मा शैलाटवी प्रणयवान् मुखितः सदैव । निसामयो युवतियोगविषण्णचेताः सीमातिगो गुरुजनेषु मघाभिजातः॥ ७६ । क्रूरो विरुपतरमूर्तिरकायकोपी युद्धप्रियःप्रियतमाभिरतःकृतघ्नः। वल्यामुखीतनयवित्तविवार्जितश्च विप्रप्रियः मुनिपुणश्च भगाभिजातः ॥ ७७ शास्त्रार्थबित्परवधूनिरतो दयावा नल्पात्मजः कृशतनुः कृतयोगिसङ्ख्यः । सौम्यः परोपचरितो मधुराशनश्च कान्तःसुनीतिनिधिरुतरफाग्लुणीजः ॥ ७८ ॥ लन्जान्वितःकुलिशधीर्वहुमाननीयः कान्तःकृपालुरणघाकटुकाम्लभोजी । सत्सङ्गवाननुपभोगविनष्टवित्तः पान्थोलसः प्रमुदितश्च कराभिजातः ॥ ७९ ॥ कामी कटोरहृदयो बहुशिल्पवेदी काव्यप्रियः मुललितश्च जघन्यबन्धुः । प्रांशुःमभूतविभवः समयेषु सक्तः श्यामाप्रभुःकिल चतुर्दशभाभिजातः ॥ ८० ॥
Aho ! Shrutgyanam