________________
(
)
त्यागी भोगी सुखी श्रीमान् वाहनाव्यश्च भूयवान् । भवेद्धुरुधुराजातो बहूवारम्भविषादवान् ॥ ५ ॥ केमद्रुमसमुद्भूतः प्रेष्यो धनीववज्जतः । बलात्मा मलिनो नीचो दुःखितश्च निरुद्यमः ॥ ६ ॥ योगकर्त्तरि भूपूत्रे तस्करः क्रोधविह्वलः । बुधे धनाढ्यो मतिमान् सूक्ष्मदृष्टिःकलासु च ॥ ७ ॥ जीवे गुणगणाधारः पूज्यते च नरेश्वरैः । भार्गवे सुखितोभूयः समृद्धिः सर्व्वसम्पदः ॥ ८ ॥ सौरौ तु पूज्यते श्रेष्ठो बहुभृयः समुद्यमः । मिश्रेषु मिश्रगुणवान् बलिनो वा गुणाधिकाः ॥ ९ ॥ सूर्य्याद्वितीय ग्रहयुक्तम्मृक्षं वंशीतिविद्धः कथितं पुराणैः । वाशीततो द्वादशभन्तयोस्तु सौम्यग्रहश्वेच्छुभमस्ति जन्तोः १० खौ चन्द्रादिसंयुक्ते यन्त्रज्ञः पापलालसः । निपुणः क्रूरचेष्टश्च शत्रुवृत्तिश्च धातुवित् ॥ ११ ॥ चद्रे भौमाद्रिसंयुक्ते कूटवेदी प्रियंवदः । कुलाग्रो वस्तुलक्ष्मअः पुनर्भूतनयः क्रमात् ॥ १२ ॥ भौमे सौम्यादिसंयुक्ते मल्लो रक्षाधिकारवान् । सक्तश्च परदारेषु क्रमेण व्यसनान्वितः ॥ १३ ॥ सौम्ये जीवादिसंयुक्ते जातो भवति गेयवित् । प्रशस्तवचनोपेतः क्रमेणैवेन्द्रजालवित् ॥ १४ ॥ जीवे शुकादिसंयुक्ते प्रशस्तगुणमण्डनः । अन्नकारो भवेत् कश्चिद् घटकारोऽपि सम्मतः ।। १५ ।। असितेन सितेयुक्ते क्षुद्रनेत्रोऽपिवा भवेत् । anantar त्रिभिश्चैवं फलोदयः ॥ १६ ॥
१ प्रेक्ष्य |
२ तस्सर । ३ सर्वसम्पदा । ४ स्त्रिवितीर्ण ।
Aho! Shrutgyanam