________________
रविमुतशशिनौ गृहावसाने
शशितनयः फलदस्तु सर्वकालम् ॥ १४ ॥ यस्य गोचरफलं प्रमाणतस्तस्य वेधफलमिष्यते नवा । प्रायशो न बहुसम्मतं विदः स्थूलमार्गफलदो हि गोचरः॥१५॥ अष्टवर्गपरिशाधितो ग्रहः श्रेष्टतां समनुवर्तते यदा। रिष्फगोऽपि हितदःप्रशश्यते योऽष्टवर्गशुभदःसशोभनः॥१६॥ जन्मकाले ग्रहक्रान्तराशेरारभ्य कल्पयेत् । शुभस्थानेषु विन्दुश्च रेखास्तदितरेषु च ॥ १७ ॥ द्वयोरन्योन्यविश्लेषादुत्तमाधममध्यमान् ।। कल्पयेच्चारमार्गेण तत्तद्राशिषु खेचरान् ॥ १८ ॥ अर्कः स्वस्माच्च भौमाच्च मन्दाच्च विचरन् शुभः । प्रथमायमुहृन्मृत्यु-शैलाज्ञाधर्मवस्तुषु ॥ १९ ॥ शुक्राकामारिरि फेषु जीवाद्ध्यायारिधर्मसु । चन्द्राक्त्याज्ञारिलाभेषु विचरन शुभदो रविः ॥ २० ॥ बुधादाज्ञात्रिलाभारि व्ययधी धर्मगःशुभः । लग्नादाज्ञात्रिलाभारि सुहृद्रिःफेषु शोभनः ॥ २१ ॥ स्वस्मादृपचयेष्विन्दुरेकत्र मदनेऽपि च । लग्नादुपचयेष्वारात सुतधीधर्मवस्तुषु ॥ २२ ॥ रवेरस्ते च मृसौ च तथैवोपचयेषु च । शनेस्ययारिपुत्रेषु विचरन् शोभनःशशी ॥ २३ ॥ बुधात्पथमदिक्शैलसुहृन्नाशायधीस्त्रिषु । जीवात्प्रथमकाद्नि धनलाभाष्टबन्धुषु । शुक्राद्धर्मसुहृत्पुत्रः सहजायादिकर्मसु ॥ २४ ॥ भौमः स्वस्मात्स्वबन्ध्वाज्ञानाशाय प्रथमादिषु ।
१ खेचगत् । २ तेसु। ३ कर्मद्र ।
Aho! Shrutgyanam