SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ( ९० ) सौम्यो योषिद्विवादं विरचयतिभृगुर्विश्वासं युवसाः स्थानभ्रंशं विशेषाद्रचयति रविजः सप्तमर्क्षप्रयातः ॥ ८ ॥ सूर्य्यः शत्रुशतं करोति हृदयातङ्के शशाङ्को नृणां भौमो लोहितरोगवृद्धिमतुलं कल्याणमिन्दोः सुतः । जीवो जीवविनाशतुल्यविपदं स्त्रीसम्पदं भार्गवः सौरिःप्राणनिरोधकारणकरः स्यादष्टमक्षेत्रगः ॥ ९ ॥ भानुः करोत्यामयमिन्दुरार्त्ति भौमः शुभं चन्द्रसुतो ऽपवादम् । जीवः प्रमोदं भृगुरर्थलाभं मन्दः प्रवासं नवमक्षयातः ॥ १० ॥ धत्ते रविर्मुदमनन्तसुखं मृगाङ्कः क्लेशं कुजः शशिसुतो धनलाभमुचैः । जीवः परं परिभवं भृगुरर्थलोपं सौरिस्तु मानसरुजं दशमर्क्षयातः ॥ ११ ॥ एकादशक्षेत्रगताः समस्ताः कुर्वन्ति वृद्धिं महतीं नराणाम् । सर्वेऽपि ते द्वादशराशियाताः अन्वन्ति चिन्तामयमुत्ररोगम् ॥ १२ ॥ जन्माष्टमद्वादशराशियातौ कष्टं विधत्तः खलु राहुकेत् । स्यातां शुभौ भ्रातृषाययातौ क्षेत्रेषु शेषेषु हि मध्यमौ तौ ॥ १३ ॥ दिनकररुधिरौ प्रवेशकाले गुरुभृगुजौ भवनस्य मध्ययातौ । १ धनमाचं । २ दधाते । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy