________________
तिथ्यादिवाधिकारः ।
-
हितंशर इत्यादिशेषाज्ञातव्या रेखेति देशान्तरंहग्गणितमित्यग्गणितग्रहणं तस्माद्देशान्तरं साध्यम् तेन संस्कृता स्वदेशेदृग्गोचराः सन्तीत्युक्तम् तद्यथा यदा ग्रहणे खग्रा - सो भवति तदा देशान्तरसंस्कारं विना ग्रहणगणितं कृत्वा तद्देशान्तरं रेखाजनितं ज्ञेयम् तत्रोन्मीलनकालः साध्यः स्वदेशेच यन्त्रादिनोन्मीलनकालः साध्यः तयोरन्तरं रेखास्वदेशान्तर घटिका ज्ञातव्या ताभिर्घटिकाभिरनुपातेन देशान्तरयोजनानि साध्यानि तानि रेखाखदेशान्तरयोजनानि सन्तिरे खोन्मीलन कालात्स्वदेशोन्मीलन कालं यदाधिकं स्वदेशरेखातः प्राग् ज्ञेयम् यद्यन्यं तदापश्चाद्ज्ञेयम् (देशान्तरं तु प्राग् ऋणं पश्चाद्धनमितिबोद्धव्यम्) अथानुपातप्रकारं स्वदेशजनित अक्षांशेनोनानवति ९० लम्बां - शास्युः तेषां ज्यालंवज्या अतोनुपातः त्रिज्ययाभूपरिधि लभ्यते तदा लंवज्यायाः किमितियल्लब्धं तत्स्वदेशजनिताभूपरिधिर्लभ्यते पुनरनुपातः यदिषष्टि घटिकाभिः स्वदेशपरिधि प्राप्यते तदा रेखाखदेशोन्मीलनकालयोरन्तरघटिकाभिः किं फलं यल्लब्धंतद्खास्त्र देशान्तरयोजनानि तैर्योजनै ग्रहाणां देशान्तर संस्कारः कार्य्यः तत्पूर्व स्वदेशजभूपरिधियोजनैर्ग्रहगतिकला लभ्यते तदादेशान्तर योजनैः किं फलं लब्धं ग्रहाणांदेशान्तरकलास्तैः संस्कृताः खेटा देशान्तर संस्कृता भवन्त्येव यथोन्मील
Aho! Shrutgyanam
१३