________________
वामनीयलिशानुशासनं • . बालधिः असि-अग-नद-अब्धि-कूपानां नाम पुल्लिङ्गं भवति । अयमसिकरवालः खङ्गा, पर्वतः शैलः अद्रिः गिरिः। नदाभिधानम् । मिथा, उध्या, लौहित्यः । अधिः समुद्रः उद्वान् । अयं कूपः प्रधिः उदपानः । स्वर्नाम । अयं त्रिदिवः स्वर्गः। वज्रनाम । दम्भोलिः शतकोटि: पविः वज्रम् । वज्रशब्दस्त्वर्द्धर्चादिषु दृश्यते । तेन " स वाग्वजो यजमानं हिनस्ति यथेन्द्रः शत्रून स्वरतोऽपराधात् " तथा-"जान्वश्चितातिहिमलीमसशाटकानां
_ मित्रादपि प्रथमयाचितभाटकानाम् । पुत्रादपि प्रियतमैकवराटकानां]
वजं दिवः पततु मूर्ध्नि किराटकानाम् । इति परशुः छिदिः मिदिः, रथः स्यन्दनः चक्री, मखः यज्ञः अध्वरः वितानः , घनः जीमूतः पर्जन्या, घृणिः रश्मिा, रदः दशनः रदनः, पुष्यः तिष्यः सिध्यः, क्लतः कुशूल: धान्यकोष्ठकः।
ध्वनितरुविषमासासुरवर्णमरुत्पाणिनां विशेषाणाम् । धान्यानां रात्रो ह्यसमाहारे दुन्दुभिरनक्षे ॥ १६ ॥
ध्वनिनाम ध्वनिविशेषाणां च नाम पुल्लिङ्गं भवति । अयं ध्वनिः कलकलः कोलाहलः। ध्वनिविशेषाणां नाम । उदात्त: अनुदात्तः स्वरितः घेवतः। तरूवृक्षः।तरुविशेषनाम । तालस्तमालः रसालश्थतः आम्रः, अर्जुनः असनः, चन्दनः । विषनाम । हालाहलः मोहनः । मासविशे. षाणां नाम। शुचिः शुक नभस्यः । असुरनाम । दैत्यः । विशेषनाम । बलिः नमुचिः। शुचिः। वर्णविशेषः । श्वेतः नीलः लोहितः हरितः। मरुत् देवः। तविशेषः। इन्द्रः आदित्यः रविः अग्निः वहिः । मरुबायुयोच्यते । तेन तन्नाम विशेषश्च पुंसि भवति । मरुवातः । अपानः उदानः पवमानः व्यानः प्रमजनः । प्राणिनो नाम तविशेषाणां च नाम पुल्लि भवति । पिता माता जामाता नता, षण्डः वर्षधरः, सतिः अलि कपिः अहिः बकः कपोतः पारापतः अनडान् । विशेषनाम । दूतः पण्डितः कविः मुनिः यतिः ऋषिः विपबित् सुहृत् दुहेत्. शत्रुः सुता आर्यः राजा युवा राजन्यः । प्राणिन इत्येकवचननिर्देशाहनां