________________
वृत्तिसमेत
"
क्वि सक्थिकम् अररि कपाटः, कशिपु प्रासाच्छादनं, जनु जङ्घामध्यपर्व, कसेरु कन्दविशेषः, तोरणं भवनादीनां द्वारम् । इदं बिसं मृणालमूलम् । अर्कै टच् । अर्कात्परष्टच् यस्तदन्तशब्दः । अर्द्ध नाव इति विगृह्य “ अर्जाच ( ५-४-१००) " इति समासान्ते दचि कृते परवलिङ्गत्वे प्राप्ते नपुंसकार्यवचनमिदम् । अर्द्धनावम् । एवमर्द्धखारमित्यत्र " स्वार्याः प्राचाम् (५-४-१०१) " इति दचि कृते । इदमहः दिवसः । नान्तत्वात् पुलिङ्गे प्राप्ते वचनम् ।
इति नपुंसकलिङ्गं समाप्तम् ।
पुल्लिङ्गं स्नदुदन्तोऽपृचञ्क्यन्तोऽस्यगनदाब्धिकूपानाम् । स्वर्वज्रपरशुरथमखघनघृणिरदपुष्यवलतानाम् ॥ १५ ॥
पुल्लिङ्गमधिकृतं वेदितव्यम्, आ स्त्रीलिङ्गात् । सकार- नकार-अकारउकारान्तः शब्दः पुल्लिङ्गो भवति । संतः । अयमनेहाः कालः, दोर्बाहुः । नंतः । धन्वा निर्जलो देशः, प्लीहा व्याधिविशेष:, मूर्द्धा शिरः, मज्जा षष्ठो धातुः । अकारान्तः । नगः वृक्षः पर्वतश्च नरः, किन्नरः, पुरुषः, देव:, संचयः, चयः । उकारान्तः । तरुः वृक्षः, कारुः शिल्पी, वायुः मरुत्, सेतुः जलबन्धः, केतुः ध्वजः एवमादि । अन्तशब्दग्रहणाद्नामनोऽपि । महिमा महतो भावो, गरिमा गुरोर्भाव इति विगृह्य । अपूघञ्क्यन्तः । अपूघञ्किप्रत्ययान्तः शब्दः पुल्लिङ्गो भवति । भावेऽचिन्नकान्तो दन्तो हीति नपुंसकत्वे प्राप्ते अपघतयोः पुल्लिङ्गार्थं वचनम् । " ऋदोरप् (३-३-५७) " । दर: गरः प्रकरः लवः प्लवः भवः । घञन्तः। पाकस्त्यागः । अत्राप्घञ्ग्रहणं पूर्वनपुंसकलक्षणबाघनार्थम् । तेन अग्र सुनः यत्र काष्ठानि संस्थाप्य हन्यन्ते । "उद्धनोऽत्याधानम् (३-३-८०) इत्यपन्तो निपात्यते । "आङ्गि युद्धे (३-३-१३) " इत्यपू । आहवः रणम् । “ अपघनोऽङ्गम् (३-३-८१) " इति अपधनः हस्तः पादो वा । " मूत घनः (३-३-७७)” इति घन इति काठिन्यमित्यर्थः । संहननं संघातः, उपोद्घातः उद्घातः निघातः उत्पातः । मन्त्रणं मन्त्रः । निकित्यते ऽस्मित्रिति निकेत वेश्म । अलङ्करणमलङ्कारः आभरणं, क्लेशनं लेशः दुःखम् । सग्राम: युद्धम् । आदि: निधिः विधिः आधिः उपाधिः जलधिः अग्निः