________________
वामनीवलिङ्गानुशासनं
तुम (५-४-१५)" इति तडितः अणू । आदिवृद्धिरनुस्वारः । "इनण्यनपत्ये (५-४-१५४)” इति प्रकृतिभावः । "अकुप्वाङ् (८-४-२)” इति णत्वम् । आसितव्यं, शयितव्यं, शयनीयं, स्थेयं, स्थातव्यम् । ईषदाढयंभवं दुराज्यं भवमित्यत्र "कर्तृकर्मणोख मूकृञोः ( ३-३-१२७ ) " इति खलूप्रत्ययः । “ अरुर्द्विषद्जन्तस्य मुम् ( ६-३-३७ ) " इति मुमागमः । देवभूयम् । “भुवो भावे ( ३-१-१०७)” इति क्यप । भावे चाकर्मकेभ्यः इत्यधिकृत्य तयोरेव कृत्यक्तखलर्था इति भावे विधानम् । अचिक्षणकान्त इति किम् ? । " एरच् (३-३-५६)” । चयः नयः । " आशिते भुवः करणभावयोः (३-२-४५)" इति खच् । आसितंभवो वर्तते । न इति नननोः सामान्येन ग्रहणात् "यजयाचयतविच्छप्रच्छरक्षो नङ् ( ३-३-९०)” । यज्ञः, यत्नः, विश्भः, प्रश्नः, रक्षः । याच्ञा तु दीर्घान्तत्वात् स्त्रीलिङ्गा भवति । "स्वपो नन् (३-३-९१)” । स्वमः । णन्त्यादः । "नौ ण च (३-३६०)” इत्यदो णप्रत्ययः । क । आखूनामुत्थानमाखुत्थो वर्त्तते । पिच्छ इत्यत्र च्छग्रहणाद्भावे कप्रत्ययः । अदन्त इति किम् ? । कारणा, हारणा, छिदा, भिदा, कृतिः, धृतिः, हृतिः । समूहभावकर्मार्थः । समूहः भावः कर्मचार्थोऽभिधेयं यस्य स तथोक्तः शब्दः अदन्तः नपुंसकलिङ्गो भवति । भैक्षं पादातम् । “भिक्षादिभ्योऽण् (४-२-३८)” इत्यणू प्रत्ययः । राजकं, राजन्यकम्, अश्वीयम् । भावार्थः । श्वेतत्वं श्वैत्यं, काष्र्ण्य, दार्व्यम् । "वर्णदृढादिभ्यः ष्यञ्च (५-१-१२३)” इति ष्यञ् । कर्मार्थः । ब्राह्मण्यम्, आधिपत्यम् । “गुणवचनब्राह्मणादिभ्यः कर्मणि च (५-१-१२४)" इति ष्यम् । सख्यं स्तेयम् । “स्तेनाद्यन्नलोपश्च (५-१-१२५)” इति यत् नलोपच । गौरवं लाघवं मार्दवम् । अदन्तेति किम् ? । ग्रामता, जनता, बन्धुता, सहायता, गजता, राजता, श्वेतता, रक्तता, ब्राह्मणता । अकारान्ता अमी समूहभावकर्माण्यभिघातुं समर्था नान्यथेति । प्रथिमा, श्रदिमा, गरिमा, लघिमा । "पृथ्व्यादिभ्य इमनिच् या (५-१-१२२)” इति इमनिच् । नान्तत्वात् पुल्लिङ्गता भवति । धर्म-अर्द्ध-सार-मित्र- इत्येते शब्दाः स्वाङ्ग-दल- न्याय्य- सुहृद्-इत्येतेष्वभिधेयेषु नपुंसकलिङ्गा भवन्ति । धर्मशब्दः धर्मसाधने योगादौ वाच्ये । इदं धर्मम् । "तानि धर्माणि प्रथमान्यासन (ऋग्वेद १- १६४-४३) । स्वाङ्ग इति किम् १। एष धर्मः सनातन इति । अर्द्धशब्दः दले। द्वयोः समप्रविभागे । इदमर्द्ध पिप्पल्याः अपिप्पली ।
I