________________
वामनीयलिशानुशासनं . . र-ज-स-ह-शब्दाः अन्तो यस्य तत्तथोक्तं । भवनस्य गृहस्य नाम नपुंसकलिङ्गं भवति च शदायथोक्तं च ।।अगारं मन्दिरम् । ज । उदजं मुनिगृहम् । पुनः लशन्दग्रहणमन्यसंसृष्ट-त-शब्दान्तार्यम्। निशान्तम् । ह । गेहं गृहम् । गृहशब्दस्तु अर्डर्चादिषु पव्यते । तेन तविशेषणमपि पुल्लिोऽपि दृश्यते । अन्तरे गृहाः, अन्तराणि गृहाणि । बायाचाण्डालादिगृहा इत्यर्थः । शब्दादुदवसितं भवनं वेश्म विष्ण्यम् । रजतहान्तमिति किम् ? । अयमावसथा भवनं, प्रासादः धवलगृहं, मठः यतिनिलयः, आवासः । आलयः । अर्थादीनां यन्नाम तनपुंसकलिङ्ग भवति । इदं द्रविणं गुम्नं, स्वापतेयं वसु, रणं युद्धमम्बरीषं संयत् संयुगं जन्यं श्वनमायोधनं मृघं सङ्घर्ष समित् समीकम् । इदमपत्यं तोकम् । प्राणिनो विशेपाणामिति पुल्लिङ्गं वक्ष्यति तस्यापवादः । हृदयं हृत् मानसं स्वान्तमिति । तालु काकुदं, पुरं नंगरम् । रान्तं च तनोः। रशब्दान्तंच,
शब्दाद्यथाप्राप्तं च, तनोः शरीरस्य नाम नपुंसकलिङ्गं भवति । इदं शरीरं कडेवरम् । च शब्दाद्यथाप्रासंच, वपुः शरीरम् । रान्तं चेति किम् । अयं कायो देहः ।बार । इदं वारं गोपुरम्, उडु भमृक्षं नक्षत्रं, तमः तिमिरं ध्वान्तम् । अन्धकारशब्दस्तु अर्डर्चादिषु पठ्यते । तेन पुल्लिङ्गेऽपि दृश्यते। "प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव" इति । अव्यक्तलिङ्गोक्तौ। अस्पष्टलिङ्गस्य उक्तावभिधाने यत् प्रयुज्यते तन्नपुंसकलिङ्ग भवति। किं तस्या गर्ने जातम् ?, यत्तत्रोपपद्यते ग्रामे तदानेयम् । इमानि गोल्पाणि गावो बलीवर्दाश्च समेता उच्यन्ते । इमानि भूतानि सर्वे प्राणिनः । सप्तमीनिर्देशाधच्छिष्टैरव्यक्तलिङ्गोक्तौ प्रयुज्यते तनपुंसकलिङ्गं भवति, न पुनरव्यक्तलिङ्गाभिधायि नपुंसकं भवति । अन्यथा सुतशिशुगोसिन्धुशब्दानामव्यक्तलिङ्गोक्तौ नपुंसकत्वं प्रयुज्यते। - दलपलबिलहिमखामृतमयमुखसुखदुःखपुण्यपापविशाम् ।। प्रसवाभरणविलेयव्यञ्जनफललवणजातीनाम् ॥ ४ ॥
दलादीनां नामानि नपुंसकलिङ्गानि भवन्ति । इदं दलं पर्ण बहः छदनं पलाश, पलं मांस तरसं, बिलं विधरं गहरं, हिमं प्रालेयं सु. पारं नीहारम्।स्वमिन्द्रियं गगनं चोच्यते। तयोरपि नाम नपुंसकलिङ्गं