________________
. वामनीयलिङ्गानुशासनं •
संकललोकहितागमप्रणेता विश्वसनीयः स आप्तः । य एवंविधः सिद्धस्तं प्रणम्येति । अनेनाशेषशास्त्रप्रशास्तृत्वमापादितं भवति । तथा चोच्यते लिङ्गानुशासनमाप्तमिति । स्त्रीपुंनपुंसकलिङ्गस्याधिकृतस्यानुशासनो यः स तथोक्तस्तं प्रणम्य । अथवा लिङ्गं चिह्नं लक्षणं सर्वस्यैव तस्यानुशासनं सिद्धं प्रणम्य लिङ्गानुशासनं शास्त्रं वच्मि कथयाम्यहमिति सम्बन्धः । आवृत्याश्चेतो धावति । "कथेव भारती यस्य" इति यथा तथा लिङ्गानुशासनशब्दः सम्बध्यते । शब्दशास्त्रविवक्षितस्त्रीपुंनपुंसकलिङ्गान्युच्यन्ते तल्लिङ्गमनुशिष्यते निगद्यते येन तच्छास्त्रं तथोक्तं तदहं वच्मि । तच सिद्धमनादिकालव्यवस्थितं साधुशब्दप्रयोगवत् । अथवा सिद्धमसंस्कार्यविसंवादि च तत् वच्मि । अन्यत् विबुधजनेष्टं तत् । विशेषेण विविधा वा बुधाः विबुधाः पण्डितास्तेषां जनः समुदायः तस्य इष्टमभिमतं साधुशब्दप्रयोगोपयोगित्वात् । तच विदिताखिलवाङ्मयम् । विविधैः प्रकारैः दितं खण्डितं तत्तनलादिखण्डैः अखिलं बाकायं यस्मिंस्तत्तथोक्तं लिङ्गानुशासनमहं वच्मि । विदितमित्यत्र “ यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्ति " इति यते: “अच उपसर्गात्तः " (७-४-४७) इति तं - आदेशो न भवति । प्रणम्यादासं नमस्यादाराध्याद्देवताविशेषादुपलब्धं लिङ्गानुशासनं बच्मीति । पूर्वाचार्यैर्व्याडिप्रमुखैर्लिङ्गानुशासनं सूत्रैरुक्तं, ग्रन्थविस्तरेण च । अहं पुनरार्याभिर्वच्मि सुखग्रहणार्थम् । वररुचिप्रभृतिभिरप्याचार्यैरार्याभिरभिहितमेव । तदतिबहुना ग्रन्थेनेत्यहं तु समासेन सङ्क्षेपेण वच्मीत्यत उच्यते नमस्कारः ।
नाम नपुंसकलिङ्गं तत्तनलस्तुत्वशब्दपर्यन्तम् । मन्नन्तो द्यजुदितमपि सन्तं हल्लुर्वररुयान्तम् ॥ २ ॥ यद्वयुत्पत्तिमन्तरेणैवार्थप्रतीतिकरमनादिसाङ्केतिकमभिधानं तथाम पर्याय: रूढशब्द इत्यर्थः । तदिह विशेषणाधिकृतं वेदितव्यं, नपुं लिङ्गं च, आ पुल्लिङ्गात् । त-त-म-लस्तु-त्व इत्येते शब्दाः पर्यन्तोऽवसानं यस्य तत्तथोक्तं नाम नपुंसकलिङ्गं भवति । त इति । इदं व्रतं नियमग्रहणम्, इदं मतमभिप्रायः, इदं पलितं श्वेतकेशः, क्षतं प्रणम्, अलातमुल्मुकम् । त । इदं वृत्तं छन्दोरचना, निमित्तं हेतुः, पित्तं मायुः, चित्तं