________________
EL1ZU.
वामनीयलिङ्गानुशासनं स्वोपज्ञवृत्तिसमेतम्
BEHAR
श्रेयांसं शिवमीश्वरं प्रशमिताशेषात्मदोषाशयं विश्वक्लेशविनाशिनं शुभनिधिं नत्वा गुरुं च त्रिधा । यद्माडिप्रमुखैः प्रपञ्चबहुलं लिङ्गस्य लक्ष्मोदितं
तत्संहृत्य मया यथा निगदितं व्याख्यायते जानताम् ॥ अथ सकलबुघजनाभिमतसाधुशब्दप्रयोगोपयोगि लिङ्गमवश्यमनुशिष्यमतिबहुतरमपि सामान्यविशेषवता लक्षणेनेति कृत्वा तदनुशासनमशेषविघ्नोपशमनाय मङ्गलपूर्वकमभिधीयते ।
सिद्धं विबुधजनेष्टं विदिताखिलवाङ्मयं प्रणम्याप्तम् । लिङ्गानुशासनमहं वच्यार्याभिः समासेन ॥ १ ॥
लिङ्गानुशासनमहं वच्मि ब्रवीमि । श्रेयोऽर्थमविघ्नेन च शास्त्रपरिसमाप्तिनिमित्तमिष्टदेवतां सिद्धं प्रणम्य वच्मि । य उपरतसकलव्यापारो विनिहतजननमरणकारणः स सिद्ध: प्रणन्तुमिष्टः प्रणामयोग्यत्वाद्विदिताखिलवान्प्रयमिति विशेषितत्वाद्वा । अत एवाञ्जनसिद्धादिव्युदासाय विशेषणमुपादीयते । किंविशिष्टम् । सिद्धं विबुधजनेष्टमिति । विबुधा हेतु इष्टः पूजितो यः सिद्धो देवताविशेषः स तथोक्तस्तम् । प्रणम्येति । पुनरपि प्राप्ताष्टगुणैश्वर्यादिमा । विदिताखिलवायायमिति । विदितं ज्ञातमखिलमशेषं वाकायं वस्तुजातं येन स तथोक्तस्तं प्रणम्य । एवमयमिष्टदेवतानमस्कार: सामा'न्येनोक्तः । साम्प्रतमधिकृतदेवतानमस्कारार्थं प्रतिपादनाय च विशेषणमुपादीयते । आप्तमिति । यो दृष्टेष्टाविरुद्धाविसंवादिवचनोऽत्यन्त