________________
श्री तारण तरण अध्यात्मवाणी जी
श्री श्रावकाचार जी कुगुरू कुदेव उक्तं च, कुधर्म प्रोक्तं सदा । कुलिंगी जिन द्रोही च, मिथ्या दुर्गति भाजनं ॥ २७५ ॥ तस्य दानं च विनयं च, कुन्यानी मूढ दिस्टितं । तस्य दान चिंतनं येन, संसारे दुष दारुनं ॥ २७६ ॥ पात्र अपात्र विसेषत्वं, पन्नग गवं च उच्यते । तृण भुक्तं च दुग्धं च, दुग्ध भुक्तं विषं पुनः ॥ २७७ ॥ पात्र दानं च भावेन, मिथ्या दिस्टी च सुद्धये । भावना सुद्ध संपून, दानं फलं स्वर्ग गामिनो ॥ २७८ ॥ पात्र दान रतो जीवा, संसार दुष्य निपातये । कुपात्र दान रतो जीवा, नरयं पतितं ते नरा ॥ २७९ ॥ पात्र दानं च प्रतिपून, प्राप्तं च परमं पदं । सुद्ध तत्त्वं च साधं च, न्यान मयं साधं धुवं ॥ २८० ॥ पात्रं प्रमोदनं कृत्वा, त्रिलोकं मुद उच्यते । जत्र जत्र उत्पाद्यंते, प्रमोदं तत्र उच्यते ॥ २८१ ॥ पात्रस्य अभ्यागतं कृत्वा, त्रिलोकं अभ्यागतं भवे । जत्र जत्र उत्पाद्यंते, तत्र अभ्यागतं भवेत् ॥ २८२ ॥ पात्रस्य चिंतनं कृत्वा, तस्य चिंता स चिंतये । चेतयंति प्राप्तं वृद्धिं, पात्र चिंता सदा बुधै ॥ २८३ ॥ कुपात्रं अभ्यागतं कृत्वा, दुर्गति अभ्यागतं भवेत् । सुगति तत्र न दिस्टंते, दुर्गतिं च भवे भवे ॥ २८४ ॥ कुपात्रं प्रमोदनं कृत्वा, इन्द्री इत्यादि थावरं । तिरियं नरय प्रमोदं च, कुपात्र दान फलं सदा ॥ २८५ ॥
पात्र दानं च सुद्धं च, दात्रं सुद्ध सदा भवेत् । तत्र दानं च मुक्तस्य, सुद्ध दिस्टी सदा मयं ॥ २८६ ।। पात्र सिध्यां च दात्रस्य, दात्र दानं च पात्रयं । दात्र पात्रं च सुद्धं च, दानं निर्मलतं सदा ॥ २८७ ॥ दात्रं सुद्ध संमिक्तं, पात्रं तत्र प्रमोदनं । दात्र पात्रं च सुद्धं च, दानं निर्मलतं सदा ॥ २८८ पात्रं जत्र सुद्धं च, दात्रं प्रमोद कारनं । पात्र दात्र सुद्धं च, उक्तं दान जिनागमं ॥ २८९ ॥ मिथ्या दिस्टी च दानं च, पात्रं न गृहिते पुनः । जदि पात्रं गृहिते दानं, पात्रं अपात्र उच्यते ॥ २९० ॥ मिथ्या दान विषं प्रोक्तं, घृत दग्धं विनासये । नीच संगेन दुग्धं च, गुणं नासन्ति जत्पुनः ॥ २९१ ।। मिथ्या दिस्टी संगेन, गुणं च निर्गुनं भवेत् । मिथ्या दिस्टी जीवस्य, संगं तिजंति सदा बुधैः ॥ २९२ ।। मिथ्याती संगते जेन, दुर्गति भवति ते नरा । मिथ्या संग विनिर्मुक्तं, सुद्ध धर्म रतो सदा ॥ २९३ ।। मिथ्या संग न कर्तव्यं, मिथ्या वास न वासितं । दूरेहि त्यजंति मिथ्यात्वं, देसो त्यागं च तिक्तयं ॥ २९४ ।। मिथ्या दूरेहि वाचंते, मिथ्या संग न दिस्टते । मिथ्या माया कुटुम्बस्य, तिक्ते विरचे सदा बुधै ॥ २९५ ।। मिथ्यातं परम दुष्यानी, संमिक्तं परमं सुषं । तत्र मिथ्या माया त्यक्तंति, सुद्धं संमिक्त सार्धयं ॥ २९६ ।।