________________
३५०
श्रीशान्तिनाथचरित्रे
सोऽवदत्तन्मया कार्य व्रत कस्मिन् दिने प्रभो ! । योगी स्माहासितचतुर्दश्यां प्रेतवने निशि ॥ २२ ॥ खज्रव्यग्र करेणे काकिना राजसुत ! त्वया ।
आगन्तव्यमहं तत्र स्थास्याम्यात्म चतुर्थकः ॥ २३ ॥ (युग्मम्)
एवमस्त्विति जल्पित्वा कुमारः स्वग्टहं गतः । चतुर्दश्याश्व यामिन्यां तथा तत्र ययावसौ ॥ २४॥ कुमारो योगिनाऽभाणि भविष्यन्ति विभीषिकाः । तत्त्वया रक्षणीयोऽहमेते चोत्तरसाधकाः ॥ २५ ॥ कुमारोऽवोचत स्वस्थः कुरु मन्त्रस्य साधनम् | को नाम कर्तुं विघ्न ते समर्थो मयि रक्षके ॥ २६ ॥ कृत्वाऽथ मण्डलं तत्र स्थापितो योगिना शवः । प्रज्वाल्य वह्निं तस्याऽऽस्ये चक्रे होमविधिस्ततः ॥ २७ ॥ पूरयत्रिव दिक्चक्रं गगनं स्फोटयन्निव । निर्घातोऽभूद् गुरुतरो विश्वं बधिरयत्रिव ॥ २८॥ संजाताऽथ द्विधा धात्री तेन रन्ध्रेण निर्गतः । कालः करालः पातालाद नर एकोऽतिभीषणः ॥ २८ ॥ ऊचे च किमरे ! पाप ! दिव्यकान्ताभिलाषुकः । क्षेत्रपालोऽत्र विज्ञातो मेघनादस्त्वया नहि ॥ ३० ॥ मम पूजामकृत्वा त्वं मन्वसिद्धिं समीहसे । एषोऽपि राजतनयस्त्वयार्यो विप्रतारितः ॥ ३१ ॥ इत्युक्का सिंहनादं सो विदधे तज्जिघांसया । वयोsपि योगिनः शिष्या निपेतुस्ते महीतले ॥ २२ ॥