________________
षष्ठः प्रस्तावः।
३५१
सोऽथ प्रोक्तः कुमारेण रे' ! त्वं गर्जसि किं वृथा ? । विद्यते तव शक्तिश्चेत्तद्युध्य स्व मया सह ॥ ३३ ॥ कुमारोऽप्यमुचत् खगं तं निरीक्ष्य निरायुधम् । प्रचण्डभुजदण्डाभ्यां तो युद्धं चक्रतुस्तत: ॥ ३४ ॥ युध्यमानोऽथ स क्षेत्रपालो बलवता क्षणात् । कुमारेण समाक्रान्तो वजसारस्व बाहुना ॥३५ ॥ सोऽथ तुष्टोऽब्रवीत् साधी ! निर्जितोऽहं त्वया खलु । याचस्व रुचितं किञ्चिद्यत्ते सम्पादयाम्यहम् ॥ ३६ ॥ जगादेवं कुमारस्तं विमुच्य स्वभुजग्रहात् । चेत्सि होऽसि कुरु त्वं तद्योगिनोऽस्य समीहितम् ॥ ३७॥ प्रोक्तं क्षेत्राधिपेनास्य यथेप्सितफलप्रदः । सिद्धः सर्वोत्तमो मन्त्रो माहात्मेन तवैव हि ॥ ३८॥ तत: खं वाञ्छितं ब्रूहि येन तत्पूरयाम्यहम् । महाभाग्य ! भवेद्यस्मादमोघं देवदर्शनम् ॥ ३८ ॥ कुमारेण ततोऽभाणि यद्येवं तत्तथा कुरु ।। यथा मे वशमायाति भार्या कनकवत्यसौ ॥ ४० ॥ ज्ञात्वा ज्ञानेन सोऽवादीद् भाविनी सा वशे तव । नूनं कामितरूपेण तच्च भावितवानथ ॥ ४१ ॥ एवं दत्त्वा वरं तस्याऽदृश्योऽभूत् क्षेत्रपालकः । सिद्धमन्त्रः स योगीन्द्रः कुमारं प्रशशंस च ॥ ४२ ॥
(१) ज भोः।