________________
३४६
श्रीशान्तिनाथचरित्रे
सुभगः सरल: शूरः पूर्वाभाषी प्रियंवदः । दृढसौहृदः सुरूप: स सर्वगुगा मंयुतः ॥ ८० ॥ इतश्चेशानचन्द्रस्य भूपते रूपसंयुता। सुता कनकवत्यामोहसन्तपुरपत्तने ॥ ८१ ॥ चक्रे तस्याः कृत राज्ञा स्वयंवरणमण्डपः । गुणधर्मोऽथ तत्रागादन्ये च पृथिवीभजः ॥ ८२ ॥ राज्ञा दत्तग्रह स्थित्वा स स्वयंवरमण्डपम् । ययो ट्रष्टुमथो तत्रागमत् साऽपि नृपात्मजा ॥ ८३ ॥ तया निरीक्षित: सोऽथ तैनासावपि वीक्षिता। जाता च दृष्टिविक्षेपणानुरागपरात्मनि ॥ ८४ ॥ तमोक्षमाणा सानन्दं दृष्ट्या सा सदनं ययौ । कुमारोऽपि वलित्वाऽगात् स्वावासे सपरिच्छदः ॥ ८५ ॥ निश्युपान्ते कुमारस्य चेट्ये का प्रेषिता तया । तस्मै समर्पयामास सैकां चित्रस्य पटिकाम् ॥ ८६ ॥ ददर्श तत्र लिखितां कुमारः कलहंसिकाम् । तदध: श्लोकमेकं च ततो वाचयति स्म तम् ॥ ८७ ॥ प्रादौ दृष्टे प्रिये सानुरागासौ कलहंसिका। पुनस्तद्दर्शनं शीघ्रं वाञ्छत्येव वराक्यहो ! ॥ ८८ ॥ कुमारोऽथ पुरस्तस्या लिखित्वा कलहंसकम् । तस्याधस्तादिति श्लोकं लिलेख च महामतिः ॥ ८८ ॥ कलहंसोऽप्यसो सुभ्र ! क्षणं दृष्ट्वा नुरागवान् । पुनरेव प्रियां द्रष्टमहो ! वाञ्छ य नारतम् ॥ ८ ॥