________________
षष्ठः प्रस्तावः ।
३४५
शलभः कनकाकारां प्रदीपस्योल्लसच्छिखाम् । पश्यन् प्रविश्य तत्राऽऽशु म्रियतेऽनिर्जितक्षणः ॥ ७१ ॥ मांसपेशौरसास्वादलुब्धः कैवर्तवश्यताम् । यात्यगाधजलस्थोऽपि मोनो रसनया जित: ॥ ७२ ॥ भृङ्गः करिमदाघ्राणलुब्धः प्राप्नोति पञ्चताम् । दुःखं वा सहते नागो घ्राणोन्द्रिय वशः खलु ॥ ७३ ॥ हस्तिनीवपुषः स्पर्श लुब्धोऽथ करिपुङ्गवः ।। आलानबन्धनं तीक्षणाङ्कशघातं सहेत भोः ! ॥ ७४ ॥ त्यजन्ति विषयानेवंविधान् सत्पुरुषाः क्षणात् । त्यता: प्रियाः स्वरूपण गुणधर्मेण ते यथा ॥ ७५ ॥ चक्रायुधेन पृष्टोऽथ शान्तिनाथो जिनेश्वर : । प्रतिबोधकृते तस्य कथयामास तत्कथाम् ॥ ७६ ॥ इहामोटु भरतक्षेत्रे पुरे शौर्य पुराभिधे । दृढधर्म इति ख्यातो विक्रान्तः पृथिवीपतिः ॥ ७७ ॥ यथार्थनाम्नी तस्याऽभूत् प्रेयसी गोलशालिनी । तत्कुक्षिसम्भवस्तस्य गुणधर्माभिधः सुतः ॥ ७८ ॥ कलावानिन्दुवल्लोकलोचनानन्ददायकः । पञ्चबाण इवाशेषकामिनीवल्लभश्च यः ॥ ७८ ॥
(१) ङ ञ समन्वितः । (२) ङ दृढ कमः।
४४