________________
षष्ठः प्रस्तावः।
कुमारीप्रेषिते साऽथ सुताम्बूलविलेपने । कुमारस्यार्पयामास सुगन्धकुसुमानि च ॥ ८१ ॥ कुमारणाऽपि बद्धानि कुसुमान्युत्तमाङ्गके। ताम्बलमुपभक्तं च न्य स्तम) विलेपनम ॥ ८२ ॥ पारितोषिकर्मतस्यै दत्तो हारश्च निर्मलः । सोवे कुमार ! कन्यायाः शृणु त्वं वाचिकं ननु ॥ ८३ ॥ कत्वैकान्तमसो तच्च श्रोतुमभ्युद्यतोऽभवत् । साऽवोचद्राजनन्दन्या तयेदं कथितं तव ॥ ८४ ॥ करिष्ये वरमालाया निक्षेपं ते प्रगे परम् । किञ्चित्कालं न विषयसेवा कार्या त्वया प्रिय ! ॥ ८५ ॥ प्रतिपत्रमिदं तेन तया तस्या निवेदितम् । प्रभाते च निचिक्षेप तत्कण्ठे साऽथ तां स्रजम् ॥ ८६ ॥ विसृष्टास्तेऽय संमान्य भूभुजानेन पार्थिवाः । कारितो गुणधर्मश्च कन्य कायाः करग्रहम् ॥ ८७ ॥ खशुरं समनुज्ञाप्य राहीत्वा प्रेयमों च ताम्। स्वपुरे म समागत्य तां मुमोचालये वरे ॥ ८८ ॥ अथान्येद्युः समीपऽस्या निषस्म: स नृपात्मजः । ब्रूहि प्रहेलिकां काञ्चिदित्युक्तश्चानयाऽवदत् ॥ ८ ॥ स्थ ले जाता जले स्वैरं याति तन न पूर्यते । जनप्रतारिणी नित्यं वद सुन्दरि ! का त्वनी ॥ २०० ॥ विचित्य कनकवत्योक्तम् 'तरी' इति ॥ तया चापाठि ;पयोधरभराक्रान्ता तन्वङ्गी गुणसंयुता ।