________________
पञ्चमः प्रस्तावः ।
कथयामास वात्त च निजां विस्मयकारिणीम् । उत्तरीयं ययाचे च' पर्यङ्क सार्वकामिकम् ॥ ८४ ॥ गत्वा च भूपतेः पार्श्वे विधाय च नमस्कृतिम् । तदस्त्रमर्पयामास तत्पत्नगाः कमलश्रियः ॥ ८५ ॥ चिरायुर्वत्स ! भूयास्त्वमित्यूचे सा प्रमोदिनी ? । चक्रे राजाऽपि सत्कारमेतस्याऽऽभरणादिभिः ॥ ८६ ॥ कुत्र चीरं त्वया प्राप्तं क्व वा वान्तोऽसि सुन्दर ! ? । पप्रच्छ चेति भूपालो वत्सराजं सविस्मयः ॥ ८७ ॥ पर्यङ्कतुरगलाभं विना वाती निजामसौ ।
राज्ञो न्यवेदयद्दस्त्रं दत्तं देवतयेति च ॥ ८८ ॥ अथान्येद्युः कमलश्रोः परलोक मियाय सा । तद्वियोगे नरेन्द्रोऽसौ महाशोकाकुलोऽभवत् ॥ ८८ ॥ वत्सराजोऽभ्यधाद् राजन् ! अनित्याऽखिलवास्तवे । भवे विवेकिनां शोकः कर्तुं क्वाऽपि न युज्यते ॥ 20 ॥ सर्वज्ञभिषगादिष्टं कोष्ठशुद्धिविधायिकम् । शोकावेशरुजः शान्त्यै कार्यं धर्मोषधं बुधैः ॥ ८१ ॥
इत्यादिवचनैस्तस्य परिषिक्तोऽमृतैरिव ।
३१३
सच्छायः सुमनोवांश्चाऽशोकोऽभूत् स महीपतिः ॥ ८२ ॥ वत्सोऽय मन्त्रयामास प्रेयसीभिः सहान्यदा ।
स्वग्टहे भोजयाम्यद्य भूपं वः प्रतिभाति चेत् ॥ ८३ ॥
४०
(१) ङ ज ज द छ ।