________________
३१२
श्रीशान्तिनाथचरित्रे
सुप्तोत्थिता प्रभातेऽथ श्रेष्ठपुत्री ददर्श तम् ।
पर्यङ्कं तं तुरङ्गं च किमेतदिति विस्मिता १ ॥ ७३ ॥ दध्यौ च हेतुना केन पर्यङ्कोऽयमिहागतः
कथं वाऽयं समारूढो वाजी सप्तमभूमिकाम् ॥ ७४ ॥ सम्यग्विलोकयामास यावत्तावद्ददर्श सा । शय्यागतं निजं कान्तं कान्ताद्दयसमन्वितम् ॥ ७५ ॥ ततो हर्षपूरिताऽङ्गी गत्वा तातस्य सन्निधौ । साख्यद्वेहोपरितनभूमौ मत्पतिराऽऽगतः ॥ ७६ ॥ श्रेष्ठ वे समभूद्दत्से ! कथमेवं तदागतिः ?
? ।
ततः शय्याऽवलोकादिवार्त्ताऽऽचख्ये तयाऽखिला ॥ ७७ ॥ अत्यद्भुतं तदाऽऽकर्ण्य सोऽगात्तत्र ससम्भ्रमः । उत्थाय वत्मराजोऽथ सप्रियः प्रणनाम तम् ॥ ७८ ॥ पृष्टोऽथ श्रेष्ठिना वत्सः स्ववृत्तान्तं न्यवेदयत् । विस्मितस्तच्चरित्रेण शिरो धूनयति स्म सः ॥ ७८ ॥ तहिनं समतिक्रम्याऽनुज्ञाप्य श्रेष्ठिनं ततः । निजस्थानं स सम्प्राप्तः शय्यामारुह्य सप्रियः ॥ ८० ॥ कुर्वत्यौ पुत्रशय्यायाः सदा नीराजनाविधिम् । धारिणोविमले तस्यां तथास्थं तमपश्यताम् ॥ ८१ ॥ अपनीय ततो वस्त्रं दृष्ट्वा पुत्रं च सप्रियम् । किञ्चिद होशङ्कया तस्याऽपक्रान्ते ते शनैः शनैः ॥ ८२ ॥ क्षणान्तरेण संप्राप्ते ते विलोक्य समुत्थितः । नमश्चक्रे तयोः पादान् वत्सराजः प्रियान्वितः ॥ ८३ ॥