________________
श्री शान्तिनाथचरित्र ताभिः प्रोचे न ते युक्तं नृपस्याऽऽनयनं रहे । देहि तत्रैव तत्तस्मै दित्साऽस्ति यदि हे प्रिय ! ॥ ४ ॥ सोऽवदहौरवं कान्ता: ! भवेन्नैकं कृते सति । यदीहानीयते राजा तन्मे भवति निवृतिः ॥ १५ ॥ जगदुः पुनरप्येता यद्ययं निश्चयस्तव । तदाऽऽनय नृपं तस्य दर्शनीया क्यं न तु ॥ ८६ ॥ ततोऽसौ सपरीवारं गत्वा भूपं न्यमन्त्रयत् । भोजनायोपरोधेन तस्य मेने नृपोऽपि तत् ॥ ८७ ॥ निमन्वा पार्थिवं वत्सराजः प्राप्तो निजं यहम् । वल्लभाभि: सहाक्रीडत् तत्रोपरितनावनो ॥ ८ ॥ कियान् रसवतीपाको वर्त्ततेऽस्य निकेतने । इति ज्ञातुं प्रतीहारं प्रेषीत्तत्र महीपतिः ॥ ६ ॥ प्रतीहारोऽपि तदेहे गत्वा यावद्दालोकयत् । नावट्रसवतीघाकं तत्र कञ्चिद् ददर्श न ॥ ७०० ॥ तेनाऽऽगत्य महोभर्तुस्तदाचख्ये ततोऽघरम् । नरं संप्रेषयामास तदीक्षण कृते नृपः ॥ १॥ धान्यपाकादिसामग्री तहहेऽन्यग्रहेषु च । अदृष्ट्वाऽकघयत् सोऽपि तत्सर्वं जगतीपतेः ॥ २ ॥ भोजनाऽवसरे वत्सराजोऽभ्येत्य महीपतिम् । भोक्तुमाऽऽकारयामास राजाऽप्येवमभाषत ॥ ३ ॥ उपहासपदं किं नु वयं वर्तामहे तव ? । विनाऽपि येन सामग्रीमाकारयसि नो ग्राहे ॥ ४ ॥