________________
२६४
श्रीशान्तिनाथचरित्रे
इदं पुनः पुनस्तेन पठ्यमानं निशम्य सः । तं च विज्ञाय तत्रस्थो भुजगोऽचिन्तयत्त्विदम् ॥ ७३ ॥ वयं येनोवृताः कूपात् पुराऽरण्ये महात्मना। स एवाद्य महोदेवो व्यसने पतितो हहा ! ॥ ७४ ॥
उक्तञ्चउपकारिणि विश्रधे साधुजने यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति ! वसुधे ! कथं वहसि ? ॥७॥ इयत्यपि गते सोऽहं कृत्वा किञ्चिविधानकम् । यास्याम्यस्योपकारस्यानृणं बुद्धिवशाट् 'द्रुतम् ॥ ७६ ॥ ततश्च वाटिकां गत्वा क्रीडन्तों सममालिभिः । लतागुल्हान्तरीभूय सोऽदशट् राजनन्दिनीम् ॥ ७७ ॥ निराधारा लतेवैषा मूर्छिताङ्गप्रपतद्भुवि । सख्यस्तूर्णं तदाचख्युः पूत्कुर्वत्यो महीपतेः ॥ ७८ ॥ राजा च तत् समाकण्य स्फूर्जथुप्रतिमं वचः । महाशोकाकुल: काममाबाधाविधुरोऽवदत् ॥ ७ ॥ यावन्नै कस्य दुःखस्य पारमासाद्यते मया। द्वितीयं ढौकितं तावच्छिद्राना भवन्त्यही ! ॥ ८० ॥ मान्त्रिकास्तान्त्रिकाश्चैव समाहता महीभुजा। चिकित्सा च समारब्धा तत्रैको मान्त्रिकोऽवदत् ॥ ८१ ॥
(१) ठ ध्रुवम् । (२) द महाशोकासमाबाधाविधुरो नवरोऽवदत् ।