________________
पञ्चमः प्रस्तावः ।
२६३
दध्यौ चासंस्तुतो मेऽयं श्रोत्रियो गोत्रि कश्च न । तत्कथं युज्यते कर्तुमस्यार्थेऽनर्थमात्मन: ? ॥ ६३ ॥ ततश्च पटहं कृत्वा गत्वा दत्त्वा च भूषणम् । राजे तदपहर्तारं ब्राह्मणं तं न्यवेदयत् ॥ ६४ ॥ राजाऽऽज्ञाप्य निजान् पत्तीन् स बड्डाऽऽनायितस्ततः । पृष्टाः पौराणिकाः किं भोः ! युज्यतेऽत्र ममेत्यथ ? ॥६५॥ तेऽवोचन वेदवेदाङ्गपारगोऽपि द्विजोत्तमः । महाहत्याकरो राज्ञा वध्यो नास्त्यत्र पातकम् ॥ ६६ ॥ रासभारोपितं कृत्वा राजादेशात् पदातयः । रक्तचन्दनलिप्तं च तं निन्युर्वध्यभूमिकाम् ॥ ६७ ॥ नीयमानो महात्माऽसौ चिन्तयामास चेतसि । अहो ! मे देवदोषण कीदृशी दुर्दशाऽभवत् ? ॥ ६८ ॥ अहो ! दुष्टस्य धृष्टस्य मुष्टिक स्य कृतघ्नता । व्याघ्रवानरयोः पश्य कोदृशी च कृतज्ञता ? ॥ ६८ ॥ स्मृत्वा तदुदितं वाक्यमात्मनशाऽज्ञतां पुनः । पश्चात्तापाऽभितप्ताङ्गः श्लोकयुग्मं पपाठ सः ॥ ७० ॥ व्याघ्रवानरसर्पाणां यन्मया न कृतं वचः । तैनाहं दुर्विनौतेन कलादेन विनाशितः ॥ ७१ ॥ वेश्याऽ'क्षकुक्कुराश्चौरनौरमार्जारमर्कटा: । जातवेदाः कलादश्च न विश्वास्या इमे क्वचित् ॥ ७२ ॥
(१) ख ट द च -नाष्ठ कुरा- । ग वेश्या च कुक्कराचौरा। गर्जरभाषानिबद्धश्रीशान्तिनाथरासनाम्नि पुस्तके तु वेश्याचा राज चौराओत्युपलभ्यते ।