________________
पञ्चमः प्रस्तावः ।
२५१
मुक्तस्तेन पणेनाऽसौ ततस्तौ नृपतेः पुरः । योई प्रवृत्तावन्योऽन्यं चञ्चुघातकतक्षती ॥ ३५ ॥ चचुपादप्रहारैस्ती युध्यन्तावरुण क्षणी। राजसभ्यजनकृतां प्रशंसां समवापतुः ॥ ३६ ॥ तीर्थङ्करत्वादागर्भवासाट् ज्ञानत्रयाऽन्वितः । अत्रान्तरे मेघरथं राजा घनरथोऽब्रवीत् ॥ ३७ ॥ चिरं युध्वाऽनयोर्मध्याट् वत्म ! नैकोऽपि जेष्यति । पृष्टोऽथ कारणं तेन पुनरेव जगाद सः ॥ ३८ ॥ इहैव भरतक्षेत्रेऽभूतां रत्नपुरे पुरे । धनदसुदत्तसंज्ञौ वणिजो मित्रतां गतौ ॥ ३८ ॥ वाहयन्ती बलीवर्दी क्षुत्तृष्णाभरपीडिती। व्यवहारं सदा गन्त्रया चक्रतुः सममेव तौ ॥ ४० ॥ मिथ्यात्वमोहितो कूटतुलामानविधानतः । अर्जयामासतुर्वित्तं तो चाल्पं परवञ्चको ॥ ४१ ॥ अन्यदा कलहायन्तौ तौ प्रहृत्य परस्परम् । विपद्य चार्तध्यानेन संजातौ वनदन्तिनी ॥ ४२ ॥ कूले सुवर्ण कूलाया: वईमानी बभूवतुः । काञ्चनताम्रकलशाऽभिधानी यूथनायको ॥ ४३ ॥ तौ च यूथस्य लोभन युवा मृत्वा बभूवतुः । सैरिभो पुर्ययोध्यायां नन्दिमित्रस्य मन्दिरे ॥ ४४ ॥ गृहीत्वा राजपुत्राभ्यां योधिती तो परस्परम् । विपद्य पुरि तत्रैव संजातो मेषको दृढौ ॥ ४५ ॥