________________
१८४
श्रीशान्तिनाथ चरित्रे
शुभकरोऽब्रवीत् किं न श्रुतमेतत् त्वया प्रभो !। साधोः समर्पितं गुह्यं सह तेनैव दह्यते ॥ ७२ ॥ ततस्तो सिंहमादाय सैन्यमध्ये समागती। इति व्यावर्णयामास तदग्रे च बटुः प्रभुम् ॥ ७३ ॥ त्वजन्ति यस्य नादेन मदं मत्तहिपा अपि । लीलया निहत: 'सोऽद्य स्वामिना नखरायुधः ॥ ७४ ॥ ततश्च पत्तिसामन्ताः संजातामितसंमदाः । शिरांसि धूनयन्तस्ते प्राशंसन् पौरुषं प्रभोः ॥ ७५ ॥ भर्तुर्जयमहे तेऽथ संप्राप्ता नगरान्तरे । सुवापनकं च क्रु स्तूर्य नादपुरस्सरम् ॥ ७६ ॥ महोत्सवमये तस्मिन्नतीत लघुवासरे । विसृज्याऽऽस्थानलोकं राट् ययौ देव्या निकेतनम् ॥ ७७ ॥ पप्रच्छ देवी नाथाद्य पुरे किं कश्चिदुत्सवः ? । वर्तते तूर्यनिर्घोषो यदयं श्रूयते महान् ॥ ७८ ॥ राजा प्रोवाच हे देवि ! यन्मया निहतो हरिः । ततोऽयं विहितो भूपैर्वर्डापनमहोत्सव: ॥ ७८ ॥ प्रत्यूचे सा पुनर्नाथोत्तमवंशोद्भवस्य ते । किमिदं युज्यते कतुं स्वस्याऽलोकप्रशंसनम् ? ॥ ८० ॥ शुभकरण बटुना सिंहो व्यापादितो यतः । संवईनमहोऽकारि यशोलुब्धेन तु त्वया ॥ ८१ ॥
(१) ज सोऽपि ।
(२) ड ज विभोः ।