________________
२४४
श्रीशान्तिनाथचरित्र गृहीत्वा हिविधां शिक्षां गीतार्थो विहरन् भुवि । ययो सोऽपि गिरिवरं सिद्धिपर्वतसंज्ञकम् ॥ ७॥ तत्र वैरोचने स्तम्भे रमणीये शिलातले । स सांवत्सरिकी तस्थौ प्रतिमा मेरुनिश्चलः ॥ ७८ ॥ इतोऽश्वग्रीवतनयौ मणि कुम्भमणिध्वजी। भवं चान्त्वा सुरत्वेन समुत्पन्नौ तदा हि तौ ॥ ७ ॥ तत्प्रदेशं समायातौ भगवन्तं निरीक्ष्य तम् । उत्पन्नमत्सरौ तस्योपसर्गानिति चक्रतुः ॥ ८० ॥ तीक्षणदंष्ट्राकरालास्यं दीर्घलाङ्गलमादितः । तो सिंहव्याघ्रयो रूपं मुक्तनादं वितेनतुः ॥ ८१ ॥ ततश्च रूपमास्थाय करण्वोरतिभोषणम् । क्रुद्धौ विदधतुः तस्य दन्तघाताऽऽद्युपद्रवम् ॥ ८२ ॥ भूत्वाऽथ सर्पसपिण्यो फटाटोपभयङ्करो। तत: पिशाचराक्षस्यावुपदुद्रुवतुश्च तम् ॥ ३ ॥ रम्भातिलोत्तमानाम्नी शक्रस्याग्रप्रिये तदा।। वज्रायुधमुनीन्द्रं तं नमस्कर्तुमुपयतुः ॥ ८४ ॥ ते विलोक्य समायान्त्यो 'त्वरितं तो प्रणशतुः। ताभ्यां संतक्षितौ गाढं वचनैर्भयकारिभिः ॥ ८५ ॥ साङ्गहारं सविलासं हावभावरसोत्तरम् । रम्भा नृत्यं स्वयं चके वज्रायुधमुनेः पुरः ॥ ८६ ॥
(१) क ज विरतौ तौ प्रणेमतुः । च द वारितौ ।