________________
चतुर्थः प्रस्तावः ।
घट चित्राssदिकरण शिल्पिनां लेखकस्य च ।
भवेत् कर्मसमुत्था या सा बुद्धिः कार्मिको स्फुटम् ॥ ६७ ॥ परिणामवशात् सर्ववस्तुनः कृतनिश्चया ।
२४३
स्यात् पारिणामिको बुद्धि: प्रतिबोधविधायिनी ॥ ६८ ॥ सर्वासामपि बुद्धीनां दृष्टान्ता आगमोदिताः । अनेके सन्ति ते ग्रन्थगौरवादिह नोदिताः ॥ ६८ ॥ बुदिश्चतुर्विधाऽप्येषा मतिज्ञानमिहोच्यते । सति यस्मिन् श्रुतमपि प्रादुर्भवति देहिनाम् ॥ ७० ॥ त्रिकालविषयं वस्तु येनाऽधीतेन विद्यते । तत् सिद्धमातृकामुख्यं श्रुतज्ञानं प्रकीर्तितम् ॥ ७१ ॥ कियन्तोऽपि भवा येन विज्ञायन्ते शरीरिणाम् । प्रोक्तं तदवधिज्ञानं सर्वदिक्षु कृतावधि ॥ ७२ ॥ भावा मनोगता येन ज्ञायन्ते संज्ञिदेहिनाम् । मनः पर्यवसंज्ञं तच्चतुर्थं ज्ञानमुच्यते ॥ ७३ ॥ सर्वत्र सर्वदा यस्य स्खलना न कथञ्चन । तद्भवे केवलज्ञानं पञ्चमं सिद्धिसौख्यक्कृत् ॥ ७४ ॥ अथोत्थाय जिनं नत्वा ग्टहे गत्वा च चक्रभृत् । राज्ये न्यवेशयत् पुत्रं 'स सहस्राऽऽयुधाभिधम् ॥ ७५ ॥ चतुःसहस्रै राज्ञीनां तत्संख्यैः पार्थिवैस्तथा । सप्तपुत्रशतैः सार्द्धं स श्रामण्यं ततोऽग्रहीत् ॥ ७६ ॥
(१) ङ सहस्रायुधनामकम् ।