________________
चतुर्थः प्रस्तावः ।
सेयं मृत्वा समुत्पन्ना पुत्री शान्तिमती तव । अस्याः प्राग्भवभर्ताऽयं खेचरोऽजित सेनकः ॥ ४६ ॥ 'दृष्ट्वा विद्यां साधयन्तीं समुत्क्षिप्ता विहायसा । इयं पूर्वभवस्त्रेह मोहितेनाऽमुना ध्रुवम् ॥ ४७ ॥ ततः पवनवेग ! त्वं त्वं च शान्तिमति ! स्फुटम् 1 मुञ्च कोपं धृताटोपमस्योपरि निरर्थकम् ॥ ४८ ॥ इति वज्रायुधवाक्यं श्रुत्वा तौ सा च बालिका । अन्योन्यं क्षमयन्ति स्मापराधं प्रीतचेतसः ॥ ४८ ॥ पुनयको समाचख्यौ समुद्दिश्य सभाजनम् । अतीतमुक्तमेतेषां भविष्यत् कथयामि भोः ! ॥ ५० ॥ अमूभ्यां सहिता शान्तिमती दीक्षां ग्रहीष्यति । रत्नावलीतपः लत्वाऽनशनेन विपत्स्यते ॥ ५१ ॥ साधिकसागरद्वन्द्व स्थितिर्वृषभवाहनः ।
स्वामी समस्त देवानामीशानेन्द्रो भविष्यति ॥ ५२ ॥ वायुगत्यजितसेननाम्नोः साध्वोस्तदा पुनः । घातिकर्मेन्धने दग्धे भावि केवलमुत्तमम् ॥ ५३ ॥ केवलज्ञानमहिमां तयोः कृत्वाऽचनं तथा । स्वस्याङ्गस्य निजं स्थानमीशानेन्द्रो गमिष्यति ॥ ५४ ॥
इन्द्रोऽपि हि ततचत्वा कुले लब्धा मनुष्यताम् । दोनां चाssदाय निष्कर्मा निर्वां समवाप्स्यति ॥ ५५ ॥
(१) द दृष्टा विद्यां साधयन्ती ।
२११