________________
श्रीशान्तिनाथचरित्रे
महेन्द्रविक्रमस्याऽभूत् तनयोऽजितसेनकः । तस्यापि कमलानाम्नी बभूव सहचारिणी ॥३६॥ (युग्मम्) इतः स नलिनकेतू राज्यं संप्राप्य पैटकम् । प्रभङ्कराऽऽख्यया साई ग्रहवासमपालयत् ॥ ३७ ॥ अधिरूढोऽन्यदा भूमिं स्वप्रासादस्य सप्तमीम् । स ददर्शाञ्चितं मेधैः पञ्चवर्णनभस्तलम् ॥ ३८॥ तस्य पश्यत एवेदं मेघवन्दं सकौतुकम् । प्रचण्डपवनक्षिप्तं 'खण्डखण्डं ययौ क्षणात् ॥ ३८ ॥ तदृष्ट्वा जातसंवेगः स दध्यौ द्रविणाऽऽदिकम् । सांसारिकमहो ! वस्तु सर्वमेतदिवाध्रुवम् ॥ ४० ॥ मयाऽज्ञानविमूढेन हरता हा ! परस्त्रियम् । क्षणिकस्य सुखस्यार्थे बहुपापमुपार्जितम् ॥ ४१ ॥ तत् प्रपद्य परिव्रज्यां तपोनियमवारिणा । पापकर्मविलिप्तं स्वं निर्मलं प्रकरोम्यहम् ॥ ४२ ॥ निवेश्य तनयं राज्ये सोऽथ त्यत्वा नृपश्रियम् । उपाददे परिव्रज्यां क्षेमङ्गरजिनान्तिके ॥ ४३ ॥ विशुद्धां पालयित्वा तां समासाद्य च केवलम् । धौतकर्ममल: सिद्धिमासमाद स शुद्धधीः ॥ ४४ ॥ साऽपि प्रभयरानाम्नी तपः चान्द्रायणाभिधम् । गणिन्याः सुव्रताख्यायाः समीप विदधेऽमलम् ॥ ४५ ॥
(१) ख घ ङ ञ खण्डखण्डः ।