________________
चतुथः प्रस्तावः ।
१८५
मार्यवाहोऽब्रवीद भद्र ! किमतन करोम्यहम् । भक्ष त्वमेव यच्छामि भक्ष्यमप्यन्यदात्मनः ॥ ८२ ॥ शुकः प्रोवाच सार्थेश ! सुदुष्पापमिदं फलम् । अनेकगुणकारि स्यात् यूयतामत्र कारणम् ॥ ८३ ॥ अस्त्यत्र भारत वर्षे विभ्यो नाम महीधरः । गजेन्द्रभग्नदेवद्रुगन्धव्याप्तदिगन्तरः ॥ ८४ ॥ प्रसिद्धा विद्यते विध्याऽटवी तस्य ममोपगा। तत्रै कस्मिन् द्रुमे कोरमिथुनं मञ्जुभाषकम् ॥ ८५ ॥ तयोः मूनुरहं तौ चानेडमूको बभूवतुः । वृहत्वाच्च तयोभक्ष्यमानीय प्रददाम्यहम् ॥ ८६ ॥ अन्येारटवी प्रान्तवने चूतद्रुमे वरे। यावदस्मि समारूढम्तावत् तत्र समाययौ ॥ ८७ ॥ सुमाधुयुगलं तच्च कृत्वा दिगवलोकनम् । निःश विजनत्वेन वार्तामवंविधां व्यधात् ॥८८॥ (युग्मम्) अस्ति मध्ये ममुद्रस्य पादे शैलस्य कस्यचित् । प्ररूढः महकाराख्यः सहक्षः सफलः सदा ॥ ८८ ॥ तस्यैकमपि योऽनाति फलं तस्य शरीरतः । नश्यन्ति व्याधयः सर्वेऽपमृत्युथ जरा तथा ॥ ८० सौभाग्यमतुलं रूपं दीप्ति: कान्तिश्च जायते । सत्फले भक्षिते तस्मिन्नेकवारमपि स्फुटम् ॥ ८१ ॥
(१) ग च ज ठ प्राप्त-1 क -प्राप्तो।
(२) र -ऽल्पमृत्युय ।
२४