________________
श्रीशान्तिनाथचरित्रे
तदाकण्यं मयाऽचिन्ति सत्यमेतन संशयः । 'यद् जायते मुनीन्द्राणां प्रलयेऽप्यन्यथा न गोः ॥ ८२ ॥ ततस्तत्फलमानीयं पितृभ्यां प्रददाम्यहम् । येनेतो तरुणावस्थौ जायेते च सुचक्षुषौ ॥ १३ ॥ चिन्तयित्वेति सार्थेश ! गत्वा तत्र मया द्रुतम् । फलमेतत् समानौतं तदिदं भद्र ! गृह्यताम् ॥ ८४ ॥ अहमन्यत् समानीय पित्रोर्दास्यामि तत्फलम् । भवता ग्राह्यमेवेदं ममानुग्रहहेतवे ॥ ५ ॥ ततश्च सार्थवाहेन विस्मयोत्फुल्लचक्षुषा । जग्गृहे तत्फलं कीरोऽप्युत्पपात नभस्तले ॥ ६ ॥ बहनामुपकाराय देयं कस्यापि भूपतेः । फलमेतदिति ध्यात्वा गोपितं सार्थपेन तत् ॥ १७ ॥ परकूलमथान्येद्युः प्राप्तं प्रवहणं ततः । दत्त्वाऽऽवासं गृहीत्वा चोपायनं श्रेष्ठिनन्दनः ॥ ८॥ ययौ भूमिपतेः पावें ढौकयित्वाऽथ प्राभृतम् । तत्फलं चार्पयामास परमार्थे निवेद्य तम् ॥८६॥ (युग्मम्) परितुष्टो मुमोचाथ शुल्कमस्याखिलं नृपः । महाप्रसाद इत्युक्त्वा निजाऽऽवासमगादसौ ॥ २० ॥
(१) घ च ज झ, संजायते । (२) ख ध झ, दिव्यचक्षुषो। (३) घ च छ -ऽङ्गतम् ।